SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रस्थानं कुर्वन्ति । नदीमूलादारभ्यमाणोऽयं प्रवासो नदीप्रमाणो दीर्घस्तु भवत्येव खलु !। अमेरिकाया उत्तरप्रदेशे स्थितस्याऽलास्काराज्यस्य युकोननदी प्राय: ३२०० किलोमिटर्-प्रमाणाऽस्ति, अतस्तन्मूले स्थितानां सामनमीनानां प्रवासोऽपि तद्दी| भवत्येव । सामुद्रजलं प्राप्य ते मीनाः सामान्यमीनवदेव सप्त वर्षाणि यापयन्ति । तदनन्तरमकस्मादेव तेषां स्मृतिशक्तेः प्रभावोऽनुभूयते । सर्वासामपि तासां मीनानां मनसि समकालमेव 'प्रतिभाति' यदिदानी तैरप्यण्डानि प्रसवितव्यानीति, तथा तान्यपि तेषामेवाऽलास्का-ग्रीनलेन्ड-नोर्वे-स्कोटलेन्डादिदेशानां तत्तन्नदीनामुद्गमस्थानेषु, यत्र वर्षदशकपूर्वं स्वयं जाता आसन् ! प्रत्येकं सामनः स्वस्वदेशं तत्र प्रवहन्तीं च निजनिजनदीमन्विष्य प्रतिश्रोतस्ती| कुत्रचिच्च प्रपातमपि समतिक्रम्योत्कटं प्रवासं कृत्वा नद्याः मूलं प्राप्नुवन्ति । युकोननद्या मूले जिगमिषुणा मीनेन तु पुनः ३२०० किलोमिटरप्रमाणः प्रतिप्रवासः कर्तव्यः । अत्र विस्मयावहो वृत्तान्तस्त्वयं यत् प्रत्येकं सामनमीनो जानाति यत् तेनाऽमुकनद्या एव मूले गन्तव्यं यत्र वर्षदशकात् पूर्वं तज्जन्माऽभवदिति । कथमेतत् संभवेत् ? संशोधकै रहस्यमेतदेवं प्रकटीकृतमस्ति - सर्वोऽप्ययं चमत्कारः सामनमीनस्य जन्मकाले तन्मस्तिष्क सङ्ग्रहीतस्य नदीजले विद्यमानस्य विलक्षणगन्धस्याऽस्ति । नद्या जले हि विविधा वनस्पतयो, वृक्षपर्णानि, सेवालः, जलजजीवानामवशेषाः, भृगुभ्यः सम्मिश्रितानि खनिजद्रव्याणि - इत्यादीनि विलक्षणं गन्धं प्रसारयन्ति । यद्यपि स गन्धोऽत्यल्पप्रमाण एव भवति तथाऽपि नवजातः सामनमीनस्तं गन्धं स्मृतौ यावत्कथिकतया सङ्ग्रह्णाति । ततः स्मृतिस्थेन तेन गन्धेन नदीमूलस्थजलीयगन्धस्य साम्यं विनिश्चित्य स्वीयं जन्म स्थानं च ज्ञात्वा सामनमीनस्तत्रैवाऽण्डानि प्रसवितुं याति । यदि गन्धसाम्यं न निश्चीयेत तदा सोऽन्यान्यनदीमूलं गत्वा गन्धसाम्यं च विनिश्चित्य जन्मस्थानमन्विषति ततश्चाऽण्डानि प्रसवति । ___यद्यपि सामनमीनायाऽण्डप्रसवार्थं स्वीयजन्मस्थलीयं नदीमूलमेव किमपि रोचते इति तु संशोधकै व ज्ञायते, तथाऽप्येतत् तु स्पष्टं यदियच्चिरकालीनस्मृतिशक्तेरन्यदुदाहरणं प्रकृतौ न क्वाऽप्यवाप्यते ।। अथ, केनचिद्रूपेण सामनमीनतोऽपि विशिष्टा स्मृतिस्तु अमेरिकादेशस्थाया रोकीपर्वतमालायाः निवासिनः प्रायशः पादमितदैर्घ्ययुतस्य नटक्रेकर(Nutcracker)पक्षिणोऽस्ति । विहगोऽयं स्वीयाभिधानानुसारं कवचयुक्तफलस्य कवचं भित्त्वा तदन्तःसाररमुदरसात् करोति । शीतकाले रॉकीपर्वतेषु कवचयुक्तफलानि काष्ठफलानि चाऽत्यल्पतया प्राप्यन्ते । अतो यदा तानि सौलभ्येन प्राप्यन्ते तदात्वे समूहचारी विहगोऽयं यथाशक्यमस्य सङ्ग्रहं कृत्वा स्थानेषु प्रतिस्थानं त्रि-चतुराणि फलानि निधानतया निखातयति । (एकेन नटक्रेकरसमूहेन स्वीयेऽधिकृते वासविस्तारे एकदा पृथक् पृथक् ५००० स्थानेष्वाहत्य ३३,००० फलानि निखातानीति संशोधकैनिरीक्षितम् ।) निखातस्थलेषु कुत्राऽपि न किञ्चिदपि चिह्न तेऽङ्कयन्ति तथाऽपि बहुमासानन्तरमपि ते स्वयं निखातानि सहस्रशः फलानि सरलतयाऽन्वेष्टुं शक्ताः, तत्र च ते प्रतिशतं नवत्या अपि अधिकतया साफल्यं प्राप्नुवन्ति । २६ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy