________________
ततः स मधुमक्षिकाणामधिकपरीक्षणार्थं काश्चन मधुमक्षिका एकस्मिन् पिहिते भाजने पूरयित्वा मधुकोशात् १५०मिटर्-दूरे नैऋत्यदिशि प्रापितवान्, भाजनं चोद्घाटितवान् । अस्मात् स्थानात् शर्करारसभाजनं द्रष्टुं शक्यं नाऽऽसीत्, मधुकोशस्तु सम्यक्तया दृश्यमान आसीत् । ततश्च तासां मधुमक्षिकाणां कृते सर्वोऽपि भौगोलिको विन्यासः परावर्तितः । इदानीं ता मधुमक्षिकाः शर्करारसपात्रं शोधयितुं केन मार्गेण गच्छेयुरिति द्रष्टव्यमासीत् । गोल्डस्य चिन्तनमासीद् यत् किल मधुमक्षिकाः प्रथमं पुरतो दृश्यमानं मधुकोशं प्रति गच्छेयुस्ततश्च नित्याभ्यासवशात् पश्चिमदिशि स्थापितं पात्रं प्राप्नुयुः । यदि च तासां तादृशी कल्पनाशक्तिर्न स्यात् तदा ता अभ्यासवशात् साक्षात् पश्चिमदिश्येवोड्डयनं कुर्युर्यत्र शर्करारसप्राप्तेः सम्भावनैव नाऽऽसीत् ।
किन्तु, गोल्डस्याऽऽश्चर्यं जातं यत् ताभिर्मधुमक्षिकाभिर्द्वयोरेकतरोऽपि सम्भावितो मार्गो नैव चितः । भाजनाद् बहिरागत्य ता मधुमक्षिकाः कतिचन क्षणानि यावत् तु दिशाशून्या इव सञ्जाताः । परन्तु तदनन्तरं ता एकैकशो वायव्यदिशो मार्ग निश्चित्य शर्करारसपात्रं प्रति प्रस्थिताः । तच्च पात्रं यद्यपि तासां दृष्टिगोचरं जायमानं नाऽऽसीत् , तथाऽपि एकेनैव प्रयत्नेन कथमिव ताभिस्तद् भाजनं गवेषितं नामेति जेम्स-गोल्डस्य महदाश्चर्यं जातम् । पिहितेन भाजनेन स्थलान्तरं प्राप्तास्ताः कथं नाम ज्ञातवत्यो यत् तासां लक्ष्यमिदानी ४५-अंशीयकोणेऽस्ति न तु १८०अंशीये कोणे ?
अत्र तर्कसङ्गतं समाधानमेवं स्यात् – पुरा हि मधुकोशात् शर्करारसभाजनं प्रति प्रत्यहं गच्छन्तीनां तासां मस्तिष्के वृक्षादीनां भौगोलिको विन्यासोऽङ्कितो जातः । ततश्च यदा स विन्यासः परावृत्तस्तदा ताभिः पुराणेन विन्यासेन सह नूतनविन्यासस्य वैसदृश्यं यथावदवगत्य शर्करारसभाजनप्रापणार्थं नूतनो मार्गो गवेषितः । अर्थात् सर्वा अपि मधुमक्षिकाः स्वीये सूक्ष्मे मस्तिष्के दैशिकी स्मृतिशक्तिं (Spatial memory) धारयन्ति स्म।
मधुमक्षिकातोऽप्यधिकरसप्रदं वृत्तं तु सामनजातीयमत्स्यानामस्ति । मधुमक्षिका हि स्वीयस्मृतिपटे भौगोलिकं विन्यासमालेखयन्ति, सामनमत्स्यास्तु तत्तद्गन्धरूपेण तत्तद्वस्तु-स्थानादीनि स्मरन्तीत्ययमस्ति द्वयोविशेषः । जन्मनः समनन्तरमेव यो बोधस्तस्य जायते स आजीवनं तन्मस्तिष्के स्मृतिरूपेण सगृहीतो भवति । अयमेवाऽस्ति तस्याऽन्यमत्स्येभ्यो विशेषः । तस्याऽन्यदपि वैशिष्ट्यमस्ति यदितरेषु मीनेषु सामान्यतया न विद्यते । सामनमत्स्या हि नद्या मधुरे जले यथा वसितुं शक्तास्तथा सामुद्रे लवणांशयुक्ते जलेऽपि वसन्ति । प्राय: ५०-७५सेन्टिमिटरप्रमाणोऽसौ मीनो हि मुख्यतया अमरिका-केनेडा-ग्रीनलेन्डनोर्वे-स्कोटलेन्डादिदेशेषु वहन्तीनां नदीनामुद्गमस्थानेष्वेव स्वीयानण्डान् प्रसवति । नद्यास्तले युक्तं गर्तं खनित्वा समकालमेव प्रायशो दश सहस्राणि अण्डान् प्रसूय, तं गतं च सिकतया पूरयित्वा मीनोऽसौ सामुद्रं जलं प्रतिगच्छति, न किन्तु स्वीयानण्डान् रक्षितुं तत्राऽवतिष्ठते । मासचतुष्टयानन्तरं तेभ्योऽण्डेभ्यो ये शावा जायन्ते ते स्वीयजीवनस्य प्रायः सार्धत्रयवर्षाणि तत्रैव नद्या मूले व्यतिक्राम्यन्ति, किन्तु तदनन्तरं तेऽपि समुद्रं प्रति गन्तुं सज्जीभवन्ति । एकस्मिन्नेव दिवसे लक्षशो मीनाः समकालमेव समुद्रजलं प्रति
२५
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org