________________
प्रश्नद्वयस्याऽपि समुचितमुत्तरं गुञ्जकपक्षिणा निर्णेतव्यमन्यथा तस्य व्यर्थ ऊर्जाव्यय उदरपूरणार्थं चाऽन्यत्र भ्रमणमित्याद्याः समस्याः समापतेयुः । यदि च तस्य स्मृतिरेतत् सर्वं ज्ञातुं सक्षमा स्यात् तदा तस्योर्जाऽपि रक्षिता स्यात् पुष्पसाक्षात्कारश्च सफलः स्यात् ।
गुञ्जकपक्षी प्रश्नयोरनयोः समुचितं समाधानं प्राप्तुं पर्याप्तां स्मरणशक्तिं धारयति । किन्तु प्रायोगिकवृत्त्या तत्प्रमाणं प्राप्तुं ब्रिटनदेशीय-एडिनबर्गविश्वविद्यालयस्य संशोधकैः फेब्रवरी(२००६)मध्ये केचन प्रयोगाः कृताः । तैर्हि गुञ्जकपक्षिभिः सङ्कीर्णे स्थाने शर्करारसभृतानि कृत्रिमपुष्पाणि पङ्क्तिबद्धानि स्थापितानि, सूक्ष्मनलिकाद्वारा च तेषु पुनरपि रसपूरणस्य व्यवस्थाऽपि कृता । तैः पुष्पाणि विविधवर्णयुतानि स्थापितान्यासन् रसपूरणस्य समयोऽपि च पृथक् पृथक् निश्चितः । अथ च गोधूमबीजपरिमाणं मस्तिष्कं धारयता गुञ्जकपक्षिणाऽल्पेनैव कालेन पुष्पेषु गमनागमनं कृत्वा तत् समयपत्रकं समवगत्य स्वीयस्मृतौ सङ्ग्रहीतम् । ततः स तत्समयपत्रकानुसारेणैव स्वोदरपूरणकार्यक्रमं प्रवर्तितवान् । प्रयोगस्य साफल्यमेवं जातं यत् - कतमं पुष्पं कियता कालेन रसपूरितं स्यात्, तथा कतमस्य पुष्पस्य रसस्तेन कियतः कालात् पूर्वमुदरसात् कृतः - इत्येतद् द्वयमपि स्वानुभवेन तेन निर्णीतमासीत् स्मृतौ च सगृहीतमपि । एतत् कार्यं कर्तुं प्रासङ्गिकी (episodic) स्मृतिरावश्यकी, या चाऽद्यावधि मनुष्येश्वेव भवेत् - इति वैज्ञानिकानां मन्तव्यमासीत्, सा गोधूमबीजपरिमाणे गुञ्जकपक्षिणो मस्तिष्केऽपि विद्यते इति ज्ञात्वा ते संशोधका महान्तं विस्मयं प्राप्ताः ।
मधुमक्षिकाविषयिकी विचारणां कुर्याम तावत् । तुच्छतया परिगण्यमानस्याऽस्य कीटकस्य मस्तिष्कं केवलं ०.००००७ ग्राम परिमाणमस्ति । तस्मिंश्च कोषाणां सङ्ख्या ९५,०००तोऽधिका नास्ति । (मनुष्यमस्तिष्के तु १०० अर्बुदतोऽप्यधिकाः कोषाः सन्तीति मन्यन्ते वैज्ञानिकाः ।) अथ चेयदल्पपरिमाणे मधुमक्षिकाया मस्तिष्के कियती वा स्मरणशक्तिर्भवेत् ? वयं चिन्तयेम यदतीव तुच्छा स्यात् । किन्तु नैव, आहारगवेषणार्थं भौगोलिकचिह्नानां यथार्थमालेखं कुर्वत्या मधुमक्षिकायाः स्मरणशक्तिर्नूनं बलवती भवति । कियती बलवतीति चेत् संशोधकानां प्रयोगानुभवं पश्यामः ।
उत्तरअमेरिकायामगस्तमासानन्तरं पुष्पोद्गमस्य प्रमाणमतीवाऽल्पीभवति । एतेन मधुमक्षिकाणां पर्याप्त आहारो न प्राप्यते । तदात्वे जेम्स-गोल्डनामकेन कीटकशास्त्रिणा प्रयोगकरणार्थं वने एकत्र स्थाने शर्करारसस्य भाजनमेकस्य मधुकोशस्याऽनतिदूरं न्यस्तवान्, स्वयं च कुत्रचिन्निलीय तन्निरीक्षणं कृतवान् । अल्पेनैव कालेन काश्चन मधुमक्षिकास्तत्र समागत्याऽऽहारार्थं मधुनिर्माणार्थं च तमेव शर्करारसं गृह्णन्ति स्म । अयं च तेषां नित्यक्रमो जातो यतः अगस्तमासानन्तरं तु कुत्राऽपि पुष्पाणामुद्गम नैवाऽऽसीत् ।
इतश्च जेम्स-गोल्डः प्रतिदिनं तत् शर्करारसभाजनमधिकाधिकतया पश्चिमायां दिशि अग्रेऽपसारितवान्, प्रान्ते च स तद् भाजनं मधुकोशात् १५० मिटर्-दूरे स्थापितवान् । किन्तु तस्य चिन्तनानुसारं मधुमक्षिकाणां तद् भाजनं प्राप्तुं न कदाऽपि काचन बाधा समुत्पन्ना, यतस्ताभिः प्रत्यहं पश्चिमदिश्येव किञ्चनाऽधिकमुड्डयनं कर्तव्यमासीत् शर्करारसप्राप्त्यर्थम् । अपि च, भाजनं तु सदाऽपि तेषां दृष्टिफलके तिष्ठति स्मैव ।
२४
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org