________________
आस्वादः
पशु-पक्षिणां स्मरणशक्ति:
मुनिकल्याणकीर्तिविजयः
पूर्वतन्यां शाखायामस्माभिः केषाञ्चन प्राणिनां पक्षिणां च विलक्षणायाः स्मृतिशक्तेरुदाहरणानि परिशीलितानि । तदनुसन्धान एवाऽत्राऽपि केषाञ्चिदितोऽपि विलक्षणानां जीविनां स्मरणशक्तेरुदाहरणानि विलोकयामः ।
गुञ्जकः पक्षी (Humming bird ) हि केवलं ग्रामचतुष्टयपरिमाण एवाऽस्ति । ततश्च तस्य देहस्याऽत्यन्तं लघुत्वाच्चयापचयक्रियाऽतीव वेगेन प्रचलति । यदा स निष्क्रियो भवति तदाऽपि स्वीयशारीरिकभारपरिमाणमधिकृत्य प्रतिग्रामं १६-घनसेन्टिमिटरमितं प्राणवायुं व्ययीकरोति, यतो निजे लघावुदरे सञ्चितस्य पुष्परसस्य स तेन प्राणवायुनाऽतिशीघ्रतया दहनं करोति । यदा स उड्डयनं करोति तदा प्रतिक्षणं ( per second ) नवतिं वारान् पक्षावास्फालयन् प्रतिग्रामं ८५ - घनसेन्टिमिटरमितं प्राणवायुं व्ययीकरोति । ततश्च तेन पूर्णोदरं पीतः पुष्परसस्तस्योदरे निमेषत्रयमपि नाऽवशिष्यते । एवंस्थिते तेन पक्षिणा पुष्परसस्य चषका वारं वारमुदरसात् कर्तव्याः । दीर्घमन्तरालं यदि विनाऽऽहारेण व्यतीतं स्यात् तदोर्जाया अधिकव्ययेन स पक्षी काभिश्चिद् घण्टाभिरेव मृत्युं प्राप्नोति । अस्य विवरणस्य सारोऽयमस्ति यत् - सततं पुष्परसं गवेषयतस्तस्य पक्षिण ऊर्जाव्ययभयेन तेषामेव पुष्पाणां साक्षात्कारः कर्तव्यो यानि पुष्परसशून्यानि न भवेयुः ।
1
यद्यपि, पुष्पाणां रसं पायं पायं तानि तच्छून्यान्यपि स एव पक्षी करोति । तथा, रसशून्यानां पुष्पाणामपि पुनस्तद्रसोत्पादनार्थं कश्चन काल आवश्यकः । एवंस्थिते गुञ्जकपक्षिणो लघुनि मस्तिष्के स्थितायाः स्मरणशक्तेरुपरि प्रश्नद्वयस्य निर्वहणमापतति – पुष्पस्य जातिमाश्रित्य नूतनस्य पुष्परसस्योत्पादनार्थं कियान् समयो व्यतीयात् ? तथा, कस्य पुष्पस्य साक्षात्कारस्तेन कियतः कालात् पूर्वं कृतः ? इति ।
Jain Educationa International
२३
For Personal and Private Use Only
www.jainelibrary.org