________________
अन्तरालापाः ॥
डॉ. वासुदेव: पाठकः 'वागर्थः '
[संस्कृतसाहित्यस्य विविधासु विधासु, 'अन्तरालापाः' इत्यस्ति विशेषः प्रकारः । तस्याऽप्यनेकेः
प्रकाराः ।
"
अत्र, एकप्रकारे, प्रस्तूयन्ते कतिपयानि सुभाषितानि एतेषु पङ्क्तित्रयी प्रश्नरूपा, चतुर्थी तावत् शब्दत्रयीमयी उत्तररूपा । चतुर्थी तु, सूक्तिरूपाऽपि भवति, इत्यस्ति विशेष: ॥]
रासे हतासु का मुग्धा ? धन्या का धारणे वरा ? सीता तुष्टा कदा प्रीता ? राधा धरैव वत्सला ॥
अहिंसादेशिकः कोऽस्ति ?
प्रसन्नः सज्जनः कदा ? कश्च साफल्यमाप्नोति ? महावीरः शुभे रतः ॥
प्राथम्यतश्च किं सेव्यम् ? स्वास्थ्यं कस्माच्च लभ्यते ? कदा सेवा समर्च्यानाम् ? आरोग्यं भास्करात् सदा ॥
सत्कार्यं कार्यमद्यैव ?
महत्त्वं कस्य जीवने ? प्राणानां प्रति को धर्म: ? कार्यं स्वास्थ्यस्य रक्षणम् ॥
Jain Educationa International
२१
राधा कस्य प्रिया प्रोक्ता ? भक्ताः जानन्ति किं वरम् ?
कीदृशं देवरूपं भोः ?
कृष्णस्य शरणं वरम् ॥
किं कार्यम् उत्तमं दृष्ट्वा ?
कार्यं कस्य च रक्षणम् ?
धन्यं जनैश्च किं कार्यम् ? इच्छेत् जीवस्य जीवनम् ॥
प्रीत्याः फलश्रुतिः काऽस्ति ? लोके रक्षति कः सदा ? जितेन्द्रियः कथं लोके ? अहिंसा धर्मः अच्युतः ॥
कुर्वन्ति किं सदा भद्राः ?
साधकः किं करोत्यहो ? ईश्वरस्य प्रियः कोऽस्ति ? भद्रं साध्नोति भक्तिमान् ॥
For Personal and Private Use Only
www.jainelibrary.org