________________
प्रास्ताविकम् "कुछ बात है कि हस्ती
मिटती नहीं हमारी... विवचकया दृष्ट्या याद वयं भारतदेशस्य परिस्थितिं समवलोकयेम तदा प्रायः सर्वत्र दारिद्यमज्ञानं मालिन्यं सत्त्वहीनताऽन्धश्रद्धा भ्रष्टाचारः - इत्यादिभिर्व्याप्तावेवाऽस्मद्देश-कालौ दृश्येते । एतच्च सर्वथा सत्यं तथ्यं चेत्यस्माभिः सर्वैरप्यनिच्छद्भिरपि स्वीकर्तव्यमेव । एवं सत्यपि तादृशं किमपि तत्त्वमस्ति देशेऽस्मिन् येन पङ्कात् कमलमिवाऽनिष्टप्राचुर्यादपि काले कालेऽत्र महामानवाः समुद्भवन्ति ।
गतं शतकमेव विलोकयेम चेत् समग्रेऽपि भारतवर्षे बहवः स्व-परकल्याणकारिणो महापुरुषाः सञ्जाता यथा – श्रीरमणमहर्षिः, श्रीअरविन्दः, विनोबा, महात्मा गान्धिः, रविशङ्करमहाराजः, रामकृष्णपरमहंसः, स्वामिरामतीर्थः, स्वामिविवेकानन्द इत्यादयः । तथा प्रत्येकं धर्म-सम्प्रदायेष्वपि महाप्रभावका बहवः सत्पुरुषाः सञ्जाता यैर्धर्मक्षेत्रे, समाजकल्याणक्षेत्रे, ज्ञानप्रसारक्षेत्रे, तीर्थोद्धारादिक्षेत्रेषु च सत्कार्याणां परम्परैव प्रवर्तिता । एवमेव येषां नामानि बहुप्रसिद्धिं नैव प्राप्तानि तादृशा अपि बहवः सज्जनाः सुजनाश्च सञ्जाता एव देशे सर्वत्र, ये हि नैराश्यतमसाऽऽवृते समाजे सदाशादीपायितं समाचरन् ।
एकत एतेषां महापुरुषाणां सत्पुरुषाणां सज्जनानां च जीवने दृश्यमाना परां कोटि प्राप्ता सत्त्वशालिता परोपकारकारिता सङ्ख्यातीतगुणप्रकर्षवत्ता च, अन्यतश्च प्रायो बहुसङ्ख्ये समाजे परिस्फुरन्ती भ्रष्टाचाराज्ञानधनलालसा-दुराचरणादिभिश्च सुदाढ्य प्राप्ता सत्त्वहीनता स्वार्थवृत्तिश्च । महदाश्चर्यं नामेदमेव यत्, तत् किं तत्त्वमस्ति - यत्प्रभावादेतावत्स्वनिष्टेषु सत्स्वपि देशेऽत्रैतादृशा महाजना जनिं प्राप्नुवन्ति, प्रतिश्रोतस्तरणमिव च सत्कार्यश्रेणि समाचरन्तः परोपकारं कुर्वन्ति खलु ? एतदेव मनसि निधाय कवि-इकबालः स्वीये "सारे जहाँ से अच्छा...' गीते लिखति यत्
"कुछ बात है कि हस्ती मिटती नहीं हमारी" "कुछ बात" नाम "किञ्चित् तत्त्वं" तादृशं किमप्यत्रत्ये वातावरणे प्रसृमरमस्ति येनैतादृशैरप्यनिष्टैः परिपूर्णाऽप्यस्माकं सत्ता खण्डिता विनष्टा वा नैव भवति । तद्धि तत्त्वं किम् ? इति सर्वैरप्यस्माभिरन्वेष्टव्यमुपासितव्यमात्मसाच्च कर्तव्यम् । अद्यतनीयो युवसमुदायो हि सततमुपभोक्तृवादं समर्थयन्नपि किञ्चिदिव विचारशीलवस्तु वर्तते एव । तेन त्वेतत्तत्त्वगवेपणायाऽवश्यं चिन्तनं कर्तव्यमेव । केवलं तद्गवेषणार्थं प्रवर्त्तनेनैवाऽनिष्टानां बढी मात्रा स्वयमेव हासं प्राप्स्यति क्रमशश्च देशस्य समाजस्य चाऽऽन्तरो बाह्यश्चेत्युभयथाऽपि विकासो भविष्यत्येव । केवलमैदम्प्राथम्येन तत् तत्त्वं - यदस्माकमान्तरिकवातावरणाद् विलुप्तमिव जातमस्तिअवश्यं गवेषणीयं येन वयं सर्वथा विनाशं नैव प्राप्नुयाम । किं वयं तदन्वेषणे प्रवर्तेमहि खलु ? चैत्र शुक्ला प्रतिपत्, २०६९ गोधरानगरम्
कीर्तित्रयी
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org