SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ततो निर्वाहकेन सर्वमपि विधि समाप्य राज्यै धनं प्रदत्तम् । साऽपि तद् गृहीत्वा प्रस्थिता । घण्टाभ्यन्तर एव समग्रे नगरे समाचारोऽयं प्रसृतो यद् राज्ञी विक्टोरियाऽद्याऽमुकाद् वित्तकोषाद् धनं गृहीतवतीति । सर्वेषामपि जनानामाश्चर्यं जातं - राज्या किमर्थमेवं कृतं स्यादिति । ___ द्वितीयं दिनमभवत् । अद्य राज्याः धनप्रत्यर्पणं कर्तव्यमासीत् । निर्वाहकेनाऽऽदिनं प्रतीक्षा कृता किन्तु न किमप्यागतम् । तृतीये दिने प्रातरेव तेन पत्रमेकं लिखित्वैको वित्तकोषीयः कर्मचारी राज्याः प्रासादे तत् पत्रमर्पयितुं प्रेषितः । तेनाऽपि गत्वा यथाविधि राज्यै पत्रं समर्पितम् । राश्या तत् पठित्वा कथितं – 'अत्र लिखितं सत्यमस्ति । किन्त्विदानीं धनं प्रत्यर्पयितुं नाऽहं समर्थाऽस्मि' । तेनाऽपि प्रत्यागत्य निर्वाहकाय कथितं तत् । तच्च ज्ञात्वा सर्वेषां मनांसि पुनरप्याश्चर्यव्याप्तानि जातानि – 'कि साम्राश्याः सकाशे एतावद्धनमपि नास्ति वा?' अथो विधिशास्त्रे स्पष्टतयोल्लिखितमासीद् यथा – यदि राज्ञी गृहीतं धनं यथाकालं वित्तकोषे न प्रत्यर्पयेत् तदा वित्तकोषीयनिर्वाहकेण न्यायालयेऽभियोगः कर्तव्यः । अयमपि निर्वाहको विधि-नियमादेर्यथावद् ज्ञाता पालकश्चाऽऽसीत् । तेन साम्राज्या भयं मनसि अकृत्वैव न्यायालये राज्ञी विरुध्याऽभियोगः कृतः । न्यायालयादपि राज्यै आदेशः समागतो यद् – 'अमुकतिथौ भवत्या यथाकालं न्यायलयेऽभियोगोत्तरदानाय समागन्तव्य'मिति । इयमपि च वार्ता समग्रे देशे प्रसृता । यस्मिन् दिने राज्या न्यायालये गन्तव्यमासीत् तस्मिन् दिने यथाकालं वित्तकोषस्य निर्वाहको न्यायाधीशो न्यायवादी चेत्यादयः सर्वेऽपि समागत्य प्रतीक्षारताः स्थिताः, किन्तु राश्याः सकाशान्न कोऽपि समागतः । द्वितीयदिनेऽप्येवमेव जातम् । ततस्तृतीये दिने न्यायाधीशेनैकपक्षीयो निर्णयः कृतो यत् – 'राज्या शीघ्रमेव दशसहस्रपौण्डमितं धनं सवृद्धि वित्तकोषाय प्रत्यर्पणीय'मिति । __ अत्र नियम एवमासीत् – निर्णयविधानात् पूर्वं तत्र पोपमहोदयस्य हस्ताक्षरः कारयितव्यः, तदनन्तरमेवाऽग्रिमो विधिः प्रवर्तेत इति । न्यायाधीशेन वित्तकोषनिर्वाहक एव पोपमहोदयपाइँ निर्णयपत्रं हस्ताक्षराङ्कितं कारयितुं प्रेषितः । पोपमहोदयस्तु तन्निर्णयपत्रं पठित्वैव चकितो जातः । शीघ्रमेव स राज्ञीमाकारितवान् निर्णयपत्रं च दर्शयित्वा पृष्टवान् – 'किमिदम् ?' इति । तयोक्तं – 'भवता यत् पृष्टमासीत् - राज्यमिदं कियत्कालं यावत् स्थिरीभविष्यतीति - तस्योत्तरमिदमस्ति' । 'तत् कथं वा ?' 'प्रभो ! यावत्कालं मम राज्यस्य कर्मचारिणो विधेनियमस्य च यथावत् पालनं कुर्वन्ति, भ्रष्टाचारिण उत्कोचग्राहिणः पक्षपातिनो वा न भवन्ति, विधिपालने च न कुतोऽपि बिभ्यति तावत्कालं मम साम्राज्यं निर्विघ्नं निराबाधं निरापदं च स्थिरीभविष्यति । यदा चैतद्विपरीतं भविष्यति तदा तन्नंक्ष्यति' । पोपमहोदय एतच्छ्रुत्वा सन्तुष्टो जातः । राज्याऽपि च वित्तकोषे धनं प्रत्यर्पितम् । ५८ Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy