SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सत्यघटना सामाज्यस्थैर्यमूलम् । मुनिकल्याणकीर्तिविजयः समग्रस्य दृश्यमानजगतः पञ्चविंशति प्रतिशतं भागं स्वीयसाम्राज्ये सम्मेलितवत इङ्गलेण्डदेशस्य घटनेयम् । तदात्वे च तस्य देशस्य साम्राज्ञी विक्टोरियाऽऽसीत् । सा हि गभीरप्रकृतिका धर्मे धर्माचार्येषु च श्रद्धावत्यासीत् । तत्राऽपि ख्रिस्तमतस्य महागुरौ पोपमहोदये तस्या महती श्रद्धाऽऽसीत् । अथैकदा सा पोपमहोदयस्य दर्शनार्थं गता । औपचारिकविधेरनन्तरं सहसा महागुरुणा सा पृष्टा - 'राज्ञि ! भवत्याः साम्राज्यं कियत्कालं यावत् स्थिरीभविष्यतीति प्रश्नस्योत्तरं दास्यति वा भवती ?' तया किञ्चिद् विचिन्त्योक्तं – 'आम्, अहं दास्ये' । 'कदा किल?' पुनः किञ्चिदिव चिन्तयित्वा सा कथितवती – 'मासाभ्यन्तरे' । एतन्निशम्य पोपमहोदयः सन्तुष्टो जातः । कानिचन दिनानि त्वेवमेव व्यतीतानि । अथैकस्मिन् दिन लण्डननगरस्यैकस्य वित्तकोषस्य मुख्यद्वारे राश्या अङ्गरक्षकाणां समुदाय उपस्थितः । तद् दृष्ट्वा द्वारपालेनाऽन्तर्गत्वा वित्तकोषस्य निर्वाहकः (Manager) सूचितो यत् ‘साम्राज्ञी विक्टोरियाऽत्र समागच्छतीति प्रतिभाति' । 'किम् ? वित्तकोषेऽत्र साम्राज्ञी स्वयं समागच्छति खलु ?' निर्वाहकेन झटिति समुत्तिष्ठता पृष्टम् । 'आम् ! सा स्वयं समागच्छति' । 'किं वा कारणं स्यात्' - इति स्वगतोक्तिं कुर्वाणेन निर्वाहकेन समग्रोऽपि कर्मचारिगणः साम्राज्ञ्या स्वागतबहुमानादि कर्तुं सूचितः । ___ ततो प्रायो दशक्षणानन्तरं साम्राज्ञी विक्टोरिया वित्तकोषे समागताः । निर्वाहकादिकर्मचारिभिस्तस्या यथोचितं सम्माननादि कृतम् । ततः सर्वेऽपि 'साम्राज्ञी किं वाऽऽदिशे'दिति तर्कयन्तस्तूष्णीं स्थिताः । राश्या निर्वाहकमुद्दिश्य पृष्टं - 'किं भवानेवाऽस्य वित्तकोषस्य निर्वाहकः ?' 'आम् ! महोदये !' । 'मम किञ्चित् कार्यमापतितमस्ति' 'आदिशतु कृपया' । 'इदमिदानीमेव मम दशसहस्रपौण्डमितधनस्याऽऽवश्यकताऽस्ति । भवतो वित्तकोषो यदि तावन्मितं धनं मे दद्यात् तर्हि दिनाभ्यन्तर एवाऽहं तद्धनं प्रत्यर्पयिष्यामि' । देशस्य विधिशास्त्रे इयं व्यवस्थाऽऽसीद् यद् – 'राज्ञी यदा कदाऽपि यस्मात् कस्माच्चिदपि वित्तकोषाद् यथेप्सितं धनं ग्रहीतुं शक्ताऽऽसीत्, किन्तु तद्धनं तया दिनाभ्यन्तर एव प्रत्यर्पयितव्यम् ।' शीघ्रमेव निर्वाहकेनाऽऽवश्यकानि पत्राणि राज्यै प्रदत्तानि । तयाऽपि हस्ताक्षरैरङ्कयित्वा प्रत्यर्पितानि । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy