SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ तच्छ्रुत्वा तेनाऽध्यापकेन सहजतया पृष्टं - 'कतमं मैसूरुराज्यम् ? यत्र विद्वान् डॉ. रामशास्त्री वसति, तद् वा ?' महाराजेन नम्रतया 'आम्' इति कथितम् । ततश्च सर्वास्वपि विद्यासंस्थासु महाराजस्य भृशं सत्कार-बहुमानादिकं जातम् । यदा महाराजो मैसूरुं प्रत्यागच्छत् तदा स रामशास्त्रिमहोदयमाकार्य तस्य सम्माननं कृतवान् कथितवांश्च – 'अत्र भवान् मे प्रजाजनः, किन्तु परदेशे तु अहमेव भवतः प्रजाजनः !!' (३) उष्णीकर्तुम् !! एकदा कार्यव्यग्रस्याऽऽचार्यक्षितिमोहनस्य गृहागमने विलम्बो जातः । हस्तादिकं प्रक्षाल्य स यावद भोजनार्थमुपविष्टस्तावत् तत्पत्न्योपालम्भपूर्णस्वरेणोच्चैः कथितं - 'किमित्येतावान् विलम्ब कृतः पश्यतु, भोजनमपि शीतं जातम् !' तन्निशम्य मन्दमन्दं स्मितं कुर्वताऽऽचार्येण भोजनस्थाली पत्न्या मस्तकोपरि स्थापिता । 'अधुनैतत् किमादृतं भवता ?' गृहिण्याऽमर्षेण पृष्टम् । 'नैव किंमपि भोः !, केवलं भोजनमिदं किञ्चिदुष्णीकरोमि किल !!' ___ (४) न कुत्रचित्, न किञ्चित् 'भवान् गुरोः पार्श्वे किमर्थमागतः ?' कश्चन जनः शिष्यमेकं पृष्टवान् । 'यतो मे जीवनं दिशाशून्यमिव न कुत्रचिद् गच्छति स्म, मह्यं च न किञ्चिद् ददाति स्म' । 'एवं वा ? तात्राऽऽगमनानन्तरं भवतो जीवनं कतमां दिशं गच्छति किल ?' 'न कुत्रचित् ?' 'किं तद् भवते ददाति ?' 'न किञ्चित् !!' 'तर्हि को विशेषो जातो ननु ?' 'अधुनाऽहं न कुत्रचिद् गच्छामि, यतो मत्कृते नाऽवशिष्टं किञ्चिद् गन्तव्यं, तथा न प्राप्नोमि किञ्चित्, यत इदानीं नाऽस्ति किञ्चित् प्रापणीयम् !' Jain Educationa Interational For Persons and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy