________________
मर्म गभीरम् मुनिकल्याणकीर्तिविजयः
(१) द्विगुणो वर्णः बादशाह जहाँगीरः कदाचित् स्वीयप्रासादस्य गवाक्षे उपविश्य नगरावलोकनं करोति स्म । तावता सुन्दरमुष्णीषं शीर्षे धारयन् कश्चनाऽश्वारोही ततो निर्गतः । तस्योष्णीषं सुन्दरतया वर्णितं दृष्ट्वा जहाँगीरो विस्मयमुग्धोऽभवत् । अश्वारोहिणमाकार्य पृष्टवान् स: – 'भो ! उष्णीषमिदं कुत्र केन वा वर्णितम् ?' तेनाऽपि वर्णरञ्जिकाया कस्याश्चित् स्त्रियो नाम निवेदितम् । जहाँगीरस्तत्कालमेव तामप्याहूतवान् पृष्टवांश्च - 'अये ! ममाऽप्येतादृशमुष्णीषं वर्णयित्वा दद्याः किल ?' तयोक्तं – 'सूक्ष्मं पट्टसूत्रवस्त्रं यदि प्राप्येत तदा वर्णयेयं, किन्त्वेतत्सदृशो वर्णस्तु नैव स्यात् !'
'कथं न स्यात् ?' साश्चर्यं जहाँगीरः पृष्टवान् । 'यत उष्णीषमिदं द्विगुणितेन वर्णेन रञ्जितमस्ति' ।
‘एवं वा ? तहि मदुष्णीषं चतुर्गिणितेन वर्णेन रञ्जयेः' । _ 'प्रभो ! नाऽत्र मापनेन द्विगुणितो वर्ण उपयुक्तोऽस्ति, किन्तु... प्रथमस्तु योऽयं दृश्यमानोऽस्ति स वर्णः, अन्यस्तु रङ्गः प्रणयस्य... ! प्रणयरङ्गः किल सर्वत्र रञ्जयितुं न शक्यः !!.
(२) स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ___ मैसूरुराज्यस्य महाराजः कृष्णराजोऽतीव विद्याप्रिय आसीत् । एकदा स भ्रमणार्थं योरोपीयदेशेषुः गतः सन् जर्मनीदेशं प्राप्तः । तत्र च विविधा विद्यासंस्थाः विलोकयितुं गतः स कस्मैचिदध्यापकाय स्वपरिचयं यच्छन् कथितवान् – 'अहं भारतदेशे मैसूराराज्यस्य महाराजोऽस्मी'ति ।
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org