SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कदाचिन्मम प्रवचनं श्रुतवान् वा ?' 'नैव भोः !', स उत्तरितवान् । 'अहं तु भवतः पेराशुटच्छत्रं पुटीकृतवानासम् । मन्ये तत् सम्यक्तया स्वकार्यमकरोन्ननु ?' 'अहो ! तत् सर्वथा समीचीनमासीत् । तत्कारणत एवाऽहमद्य भवत्पुरस्तिष्ठामि खलु ! अन्यथा विमानेन सहैव ममाऽपि...... । भवतो भृशमाभारं मन्ये....' चार्ल्स: नितरामभिभूत आसीत् । 'आभारस्य नास्ति काचिदावश्यकता, तत् तु मम कर्तव्यमासीन्ननु ! भवतु, पुनर्मिलिष्यामः' इत्युक्त्वा सोऽभिवादनं कृत्वा निर्गतस्ततः । अतिसङ्क्षिप्तोऽयं संवाद आसीत् तयोः, किन्तु तेन चार्ल्सस्य चित्तं सर्वथा क्षुब्धं जातम् । तस्यां रात्रौ स क्षणमात्रमपि नैव निद्रितवान् । तेन चिन्तितं – 'युद्धविमानस्य सफलचालकत्वाभिमानपूर्णोऽहं किं किटिहोकनौकायां स्थितेन मया न कदाऽपि गजनिमीलिकयाऽपि जनोऽयं परिलक्षितः । कियतोऽपि वारान् स मम समक्षमप्यागतः स्यात् किन्तु न मया कदाऽप्येषोऽभिवादितः सम्भावितो वा । परन्तु एवं सत्यपि यदि तेन मम पेराशुटच्छत्रं सम्यक्तया पुटीकृतं नाऽभविष्यत् तदा मम का गतिरभविष्यत् ? नौकाया आन्तरे भागे घण्टा यावदुपविष्टः पेराशुटच्छत्राणां कृते दृढरज्जूः प्रगुणीकृत्य सम्यक्तया पुटीकुर्वन्नसौ जनो मन्ये सैनिकानां जीवनरक्षावसरमपि पुटीकुर्वन् स्यात्, तादृशाः सैनिका, यान् स न कदाऽपि जानाति स्म पश्यति स्म वा' । ततः स्वीये प्रत्येकं प्रवचने चार्ल्सः प्रश्नं पृच्छति स्म जनान् – 'किं भवन्तो जानन्ति - को भवतां पेराशुटच्छत्रं पुटीकरोति ?' इति । किं वयमपि जानीमहे खलु - स्वजीवने वयं कति पेराशुटच्छत्राणामुपयोगं कुर्याम - इति ? शारीरिकं पेराशुटच्छत्रं, मानसिकं पेराशुटच्छत्रं, संवेदनानां पेराशुटच्छत्रमाध्यात्मिकं पेराशुटच्छत्रम् – इत्यादीनि कियन्त्यपि !! एतेषां पेराशुटच्छत्राणां पुटीकुर्वाणान् वयं जानीमहे खलु ? तेषां विषये किं कदाऽपि वयं चिन्तयामो वा ? ज्ञात्वाऽपि तेषां हार्दिकमाभारं वयं मन्यामहे खलु कदाऽपि ? तदर्थं तानभिनन्दयामो वा ?.... एतेषां सर्वेषामपि प्रश्नानामुत्तरं 'न' – इत्येव खलु सम्भवेत् ? एवंस्थितेऽस्माभिरस्माकं समग्रोऽपि व्यवहारः परिष्करणीय एवाऽऽमूलात् । तस्य प्रारम्भं चैवं कुर्याम -- दैनन्दिने जीवने एतत् सदाऽवधारयेम यदस्माकं पेराशुटच्छवं कः पुटीकरोतीति !! (जालपुटाद् गूर्जरभाषायामवतारकः 'मोतीचारो' पुस्तके डॉ. आई.के.वीजळीवाळा) Jain Educationa International For Perso &d Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy