________________
अनुवादः
कः पुटीकरोति पेराशुटछत्रम् ? मुनिकल्याणकीर्तिविजयः
चार्ल्स-प्लम्बोऽमेरिकीयनौकादलस्य शूरः सैनिक आसीत् । युद्धविमानस्य चालकः सं वियेटनामदेशीययुद्धकाले 'किटि-होक'-युद्धनौकातः स्वीयं जेटविमानमुड्डाययन् शत्रुदलेषु शस्त्राणि वर्षयित्वा प्रत्यागच्छति स्म । पञ्चसप्ततिवारान् स सफलोऽभवत् । षट्सप्ततितमे वारे तु स्वयुद्धनौकां प्रत्यागच्छतस्तस्य विमानं शत्रुदलीयशस्त्राहतं क्षतिग्रस्तमभवदग्निना च ज्वलितुमारब्धम् । सद्य एव स्वीयं पेरेशुटच्छत्रं गृहीत्वा स विमानादुत्पतितवान्, भूमौ समागतश्च शत्रुसैनिकैर्बन्दितया गृहीतः, षड् वर्षाणि यावत् कारागृहे स निर्दयतया पीडितश्च । ततो मुक्तो भूत्वा स्वदेशमागतः स युद्धविषयकान् कारावासविषयकांश्चाऽनुभवान् जनेभ्यः प्रवचनरूपेण कथयति स्म, लोकप्रियत्वं चाऽभजत् । __अथैकदा स निजपत्न्या सहोपाहारगृहे उपविष्ट आसीत् तावता कश्चन जनः समागतस्तत्पार्वे पृष्टवांश्च - 'भोः ! भवान् किटिहोक-युद्धनौकातो विमानमुड्डाययित्वा वियेटनामीयसैनिकेषु शस्त्राणि प्रक्षेप्तुं गच्छति स्म खलु ? भवतो नाम चार्ल्स-प्लम्ब एव खलु ? एकदा च शत्रुदलीयशस्त्रेण भवद्विमानमाहतं खलु ?'
'सर्वथाऽवितथं तत्', साश्चर्यं चार्ल्सः कथितवान्, 'किन्तु भवान् कथमेतज्जानाति ननु ? किं भवान्
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org