________________
विश्वविश्रुतोऽस्ति । तस्याऽन्वये समुत्पन्नेन श्रीजीवनजीमहाराजेन श्रीमद्भागवतमाश्रित्य 'बालकृष्णचम्पू:' इति ग्रन्थः प्रणीत: १९१३तमे विक्रमाब्दे । अस्य ग्रन्थस्य मञ्जर्याभिधा टीका खाडिल्करोपाभिधेन श्रीमताऽऽत्मारामेण शास्त्रिणा कृता । १९२५तमे विक्रमाब्दे टीकेयं श्रीपरमानन्ददासेन प्राकाश्यं नीता मुम्बयीतः । टीकोपेतस्य बालकृष्णचम्पूकाव्यस्य १९२५तमे विक्रमाब्दे प्रकाशितस्य पुनर्मुद्रणरूपोऽयं ग्रन्थः ।
ग्रन्थेऽस्मिन् षट् स्तबकाः शोभन्ते । प्रथमे स्तबके देवकीगर्भाद् भगवतः श्रीकृष्णस्य प्रादुर्भावः, नन्दगृहे च पुत्रजन्ममहोत्सवः, पूतनावधश्च । द्वितीये स्तबके शकटभञ्जनलीला, तृणावर्तवधः, मृद्भक्षणलीला, यमलार्जुनभञ्जनलीला, वृन्दावनगमनं, वत्सासुरवधः, बकासुरवधः, अघासुरवध-वत्साहरण-धेनुकासुरवधलीलाः, कालियमोक्षणम्, अग्निपानं, वसन्तवर्णनञ्च । तृतीये स्तबके प्रलम्बवधः, दावाग्निपानं, वर्षावसरवर्णनं, राधावियोगः, राधादिगोपिकाभ्यो दधियाचनलीला, शरदि वेणुगीतं, हेमन्ते चीरहरणलीला, विप्रपत्नीभ्योऽन्नयाचनं, गोवर्धनोद्धारलीला, नन्दस्य प्रत्यानयनं च । चतुर्थे स्तबके वेणुवादनेन गोपीनामाह्वानं, रासक्रीडारम्भः, अन्तहिते भगवति गोपीनामुन्मादः, आविर्भूते तेन साकं राधादीनां प्रणयप्रलापाः, महारासवर्णनं, तदुपसंहारश्च । पञ्चमे स्तबके सुदर्शनोद्धारः, वृषभासुरवधः, व्योमासुरवधः, केशिदैत्यवधलीला, कंसाज्ञयाऽक्ररस्य रामकष्णयोर्नयनार्थं गोकलगमनम, अक्ररेण सार्धं तयोः प्रस्थानं, मार्गे यमनाजले तस्याऽङ्करस्यं स्नानं भगवतो दर्शनं मत्स्याद्यवताररूपेण स्तुतिश्च, मथुरावर्णनं तत्र प्रवेशश्च । षष्ठे स्तबके रङ्गकारवधः, मालाकारानुग्रहः, कुब्जाया वक्रत्वनिवारणं, धनुर्भङ्गः, कुवलयापीडवधः, चाणूरादिमल्लानां वधः, कंसवधः, पितृविमोचनम्, उग्रसेनाभिषेकः, पृथ्वीपरिपालनञ्च, ग्रन्थकारपरिचयश्च । ग्रन्थात् प्राग् हिन्दीभाषया गो० गोकुलनाथस्य 'अस्ति किञ्चित् वक्तव्यम्' इति परिचयात्मको लेखो विलसति । . भागवतपुराणस्य दशमस्कन्धस्य पूर्वार्धभागस्य कथामनुसृत्य प्रणीतेऽस्मिन् चम्पूकाव्ये प्रायशः तानि सर्वाणि वैशिष्ट्यानि विधन्ते, यानि सहृदयहृदयानि नितरां प्रभावयन्ति । तद् यथा – समासोपेतानां पदानां संघटना, श्लेषोपमोत्प्रेक्षादीनामलङ्काराणां प्रयोगः, शृङ्गारादिरसानां सम्यग् निवेशः, साभिप्रायविशेषणैर्व्यझ्यार्थस्य प्राधान्यं, श्लिष्टपदानां समुपयोगेन चमत्कृतिःदुष्यप्रदर्शनं वा, भक्तिसुधारसस्य पानस्याऽऽनन्दानुभूतिश्च । यद्यपि भागवतपुराणे गोपीजनेषु राधिकाया नाम न विद्यते, तथाऽपि ग्रन्थान्तरोल्लेखादत्र दधियाचनलीला वर्णिताऽस्ति । प्रसङ्गेऽस्मिन् ग्रन्थकारस्य भाषाया माधुर्यं प्रीतेश्च पूतत्वं द्रष्टव्यमस्ति । वृषभानुसुता श्रीकृष्णाय तक्रकलशं रागरसोपेतं चित्तमिव प्रयच्छति । “एवंविधविविधविचित्रवचनविलाससुधासारसम्मेलननिःसीमसंवृद्धसुललितप्रीतिप्रवाहप्लवनपरवशीकृतमानसा सा वृषभानुसुता निजकरतलकलितकालशेयकलधौतकलशं स्वानुरागरसपूरितं चेत इव तस्मै प्रादात् ।" (बाल० स्तबकः ३, ग. १३, पृ. १८३)
टीकाकारेणाऽस्य चम्पूकाव्यस्य तात्पर्य विशदतया प्रतिपादितमस्ति । स्थालीपुलाकन्यायेनैकमुदाहरणं प्रस्तूयते । 'अरालालकास्ये मरालागतिस्ते मरालासनेनाऽऽहिताभ्यासतो वै । मुखे पौत्रसाम्यं कुचे पुत्रतौल्यं
४८
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org