________________
करे तातसादृश्यमार्ये पदे च ।।' इति पद्ये टीका द्रष्टव्याऽस्ति । "अथ ब्रह्मणा त्वन्निर्माणवेलायां सन्निहितस्वीयहंसादीनां गत्याद्याधानं त्वदङ्गेषु कृतमिति अपरां प्रत्याह । अरालेति । हे अरालालकास्ये अराला: कुटिला ये अलकास्तद्युक्तम् आस्यं मुखं यस्यास्तत्सम्बोधनं हे आर्ये ! श्रेष्ठनायिके ! मरालासनेन हंसासनेन ब्रह्मणा वै निश्चयेन अभ्यासतः अभ्यसनाद्धेतोः यद्वा अभ्यासतः सामीप्याद्धेतोः । भावप्रधानो निर्देशः । अभ्यासोऽभ्यसनेऽन्तिके - इति मेदिनीकोशात् । ते तव, मरालागतिः, मरालवद्धंसवत् आ ईषत् मन्देति यावत् एवंविधा गतिर्गमनम् आहिता कृता तथा । मुखे पौत्रसाम्यं पौत्रस्याऽत्रिपुत्रस्य चन्द्रस्य साम्यम् आहितमिति लिङ्गव्यत्येयेनान्वयः । कुचे स्तने पुत्रतौल्यं रुद्रतौल्यं तच्च नीलकण्ठत्वादिसाधर्म्याद् बोध्यम् । आहितं - करे च पदे च तातसादृश्यं कमलसादृश्यम् आहितम् । ब्रह्मणः कमलोद्भवत्वात् कमलस्य तत्तातत्वम् । भुजङ्गप्रयातं वृत्तम् ।" (बाल०, स्तबक: ४, प०७३, पृ. ३१६)
अस्य ग्रन्थस्य पद्यभागे स्रग्धरा, शार्दूलविक्रीडितम्, आर्या, वसन्ततिलका, उपजातिः, पृथ्वी, पञ्चचामरं, भुजङ्गप्रयातम्, इन्द्रवज्रा, शालिनी, मालिनी, मञ्जुभाषिणी, वंशस्थं, स्रग्विणी, रथोद्धता, शिखरिणी, द्रुतविलम्बितम्, उपेन्द्रवज्रा चेत्यादीनि वृत्तानि रम्यतया प्रयुक्तानि । गद्ये बाणादीनां पद्ये च माघादीनां प्रतिभाऽत्र काव्यरसिकान् प्रसादयति, भक्तांश्च कृष्णभक्तिरसामृतं पाययति । ग्रन्थकारः सत्यं वक्ति वक्ष्यमाणे पद्ये - व्यञ्जनया स्वकीयं पाण्डित्यं काव्यप्रणयनपटुतां नैसर्गिकीं प्रतिभां च प्रदर्शयति । संग्रथितेऽत्र निबन्धे रसिकैः काव्यज्ञशिक्षितैर्निपुणैः । संशोध्यं शोध्यं चेदेतद्बोध्यं न चेतरैर्विबुधाः ॥
गोरसमेतं गोरसलिप्सोर्लीलासुशर्करामिष्टम् ।
रसिकाः पिबन्तु तुष्ट्यै पुष्ट्यै सोवर्णपात्रस्थम् ॥' (बाल० ६, प. ८२-८३, पृ. ५२९) प्रास्ताविके यद्यपि ग्रन्थकारस्य विविधशास्त्रपारङ्गतता प्रदर्शिता, तथाऽपि तस्य जन्मादिविषये किमपि नैवोक्तम् । एषा स्थितिः टीकाकारस्य विषयेऽपि विद्यते । ग्रन्थस्य मुद्रणं भव्यं रम्यं च वर्तते । काञ्चनैव मुद्रणत्रुटयः स्यु । ( द्र० पृ. १०७, २२८, २३३, ३५२, ४०२ इत्यादिपृष्ठेषु) जगद्गुरु- श्रीमद्वल्लभाचार्य-विद्यालक्ष्मीसंवर्धन - सङ्कल्पान्तर्गते प्राकाश्यं नीतं ग्रन्थरत्नमिदं विद्वज्जनैः, श्रीकृष्णभक्तिरसामृतपिपासुभिः सत्काव्यसेवनतत्परैः सज्जनैश्च सर्वथा सङ्ग्राह्यं समाराध्यं च । जयतु संस्कृतं संस्कृतिश्च ।
Jain Educationa International
४९
For Personal and Private Use Only
मनी का पूरा सोरामः
प्रयागः (उ.प्र.)
२१२५०२
www.jainelibrary.org