________________
भिक्षुकः (स्त्रियं प्रति) सुन्दरि ! अन्धाय पञ्च रूप्यकाणि देहि ।
(तत्पतिस्तस्मै दशरूप्यकाणि ददाति) स्त्री (कुपिता) किमाकाशात् पतति वा धनम् ? पतिः नैव भोः ! किन्तु... स निश्चयेनाऽन्धोऽस्ति !!
(रविवासरस्य प्रातःकालः, सद्यः परिणीतः पतिः शीघ्रमेवोत्थाय महानसं प्राप्तः, तूर्णतूर्णं चायपेयं प्रातराशं च सज्जीकृत्य बृहत्स्थालिकायां तत्सर्वं शोभनतया स्थापयित्वा शयनगृहं नीतवान्, पत्नी च प्रबोध्य -) पतिः शुभः प्रात:कालः प्रिये !, त्वत्कृतेऽस्ति सिद्धः प्रातराशः । पत्नी अहो ! अत्यन्तं शोभनं कृतं, नूनमाश्चर्यकरमेतत् !
परिमलादेव ज्ञायते स्वादुः प्रातराशः । पतिः लक्षितं त्वया सर्वमपि खलु ! पत्नी किमत्र वक्तव्यम् ? परन्तु किमर्थं भवान् पृच्छति ? पतिः श्वः प्रातःकालात् प्रत्यहमहं मम प्रातराशमेवंरीत्यैव सज्जीकृतमिच्छामि !!
(न्यायालये साक्षितया कश्चन बालक आगतः) अधिवक्ता किं केनचित् शिक्षितोऽसि न्यायालये किं वक्तव्यमिति ? बालकः आम्, महोदय ! अधिवक्ता मया चिन्तितमेवाऽऽसीत् तत् । भवतु, वद केन शिक्षितोऽसि ? बालकः मम पित्रा, महोदय ! अधिवक्ता बाढम् । किं तेन शिक्षितं तव ? बालकः तेनोक्तं यत् - एतेऽधिवक्तारस्त्वां व्यामोहयितुं बहु प्रयतिष्यन्ते किन्तु यदि त्वं
सत्यं न त्यजेस्तदा न किमप्यसमञ्जसं भविष्यति !!
७५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org