SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International श्री भक्तामर स्तोत्र - स्तोत्रम् ॥ डॉ. वासुदेव: पाठकः 'वागर्थः' सरलत्वं स्वभावस्य विशिष्टसिद्धिकारणम् । विशिष्टसिद्धि सिद्धानां प्रसादः स्यात्पदे पदे ॥ विना स्वार्थं, परार्थं हि विनोपक्षां विशेषतः । सहजं स्रवते तत्र स्तोत्रं मन्त्रात्मकं हितम् ॥ भेदबुद्धिं विना शिष्टा विशिष्टा वन्द्य-वन्दना । दृढयेद्धि विनाऽऽयासं समेषां धर्मधारणाम् ॥ मुदा मनीषिभिर्भक्त्या निर्व्याजं च जितेन्द्रियैः । यदेव गीयते गानं तन्मन्त्रात्मकमुच्यते ॥ हृद्यं हितकरं स्तोत्रं मानतुङ्गाह्वसूरिभिः । भक्तामरेति नामानं कृतं कल्मषहारकम् ॥ सर्वथा संस्कृतं स्तोत्रं पठितं पाठितं परम् । परमार्थं दिशत्येव परमोन्नतिसाधकम् ॥ भक्तामरसास्वादः कस्य नोन्नतिकारकः । स्तोत्रं मन्त्रात्मकं चैतन्नूनं पतितपावनम् ॥ प्राकृतं परिहृत्यैव संस्कृतं साधयत्यनु । प्रासङ्गिकं तथाऽप्येतत् स्तवनं सिद्धिदं शिवम् ॥ पूजात्मकं परेशस्य यद्यपि स्यात् सहेतुकम् । निराडम्बरतायुक्तं निगडबन्धनच्छिदे ॥ भक्तामरस्तवं भव्यं भावैर्भद्रात्मकैर्युतम् । भूतिदं हृद्गतं कुर्वन् जीवनं धन्यतां नयेत् ॥ १७ For Personal and Private Use Only ३५४, सरस्वतीनगर, आंबावाडी, अमदावाद - १५. ( गुज.) फोन : ०७९-२६७४५७५४ www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy