SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ दुर्योधनस्य दौरात्म्यात् पाण्डवाः प्राप्नुवन् यशः । सतां कीर्तर्निदानाय दुर्जनाय नमो नमः ॥१७॥ महतां नाम बिभ्राणो दुष्टो न सुजनायते । खद्योतनाम बिभ्रत् किं सूर्यति ज्योतिरिङ्गणः ॥८॥ सज्जना यदि दृश्यन्ते जगन्नन्दनसलिभम् । दुर्जना यदि वीक्ष्यन्ते सव्याघ्रगहनोपमम् ॥७९॥ मायाविनां मात्रिकाणां तात्रिकाणां च सन्निधौ । सज्जना यान्ति विलयं लभन्ते दुर्जनाः श्रियम् ॥१०॥ दुर्बलो दुर्जनो ब्रूते पीयूषमधुरं वचः । स एव प्रबलो भूत्वा वक्ति वाचं विषोपमाम् ॥१०१॥ सर्वेभ्यः प्रतिगृह्णाति कस्मैचिल प्रयच्छति । भुङ्क्ते ऽन्येषां गृहे किन्तु न भोजयति दुर्जनः ॥१०२॥ मित्रद्रोहो निष्ठुरत्वं निर्लज्जत्वं नृशंसता । वाचाटत्वं वञ्चकत्वं दुर्जनाभरणानि षट् ॥१०३॥ न कश्चिदस्ति लोकेऽस्मिन् दुर्जनों न पीडितः । अदष्टो मशकैः कश्चिदस्ति किं वसुधातले ॥१०४॥ ईर्ष्यासूया च दम्भश्च क्रोधो द्वेषश्च दुर्जने । पञ्च दोषाः सदा सन्ति व्याघ्रपादे नखा इव ॥१०५॥ रामो विरामः पापानामारामो गुणभूरुहाम् । दण्डयत्वेष कोदण्डी दुर्जनाख्यदशाननान् ॥१०६॥ वीतरागो महावीर: कामक्रोधौ निवार्य मे । तनुतां मङ्गलं धीरो हीरोपमगुणार्णवः ॥१०७॥ रचितं दुर्जनशतकं विद्वन्मोदाय नागराजेन । भवताद् गणेशकूपया सकलानां प्रीतिभाजनं सुधियाम् ॥१०८॥ इति श्रीनागराजरचितं दुर्जनशतकं समाप्तम् । 90, 9th Cross, Navilu Rasta, Kuvempunagar, Mysore 570023 Ph. : 821-2542599 Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy