SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ शिष्टो दुष्ट इति ब्रह्मा न फाले कृतवान् लिपिम् । गुणेन कर्मणा वाचा तौ विज्ञेयौ प्रयत्नतः ॥८२॥ सिंहान् व्याघांश्च कुर्वन्ति विधेयान् कुशला जनाः । दुर्जनान् सज्जनान् कर्तुं कथं ते नहि शक्नुयुः ॥८३॥ दुष्टोऽप्यङ्गुलिमालोऽभूच्छिष्टो बुद्धोपदेशतः । महात्मनां सन्निधानं साधयत्यद्भुतं भुवि ॥८४॥ नर: प्राप्नोति दुष्टत्वं समाजस्य प्रभावतः । व्याधगेहशुको वक्ति “जहि मारय चोरय” ॥५॥ विशिष्टैरुपदिष्टश्चेद् दुष्टः प्राप्नोति शिष्टताम् । सप्तर्षिबोधितो व्याधो बभूवाऽऽदिकविः किल ॥८६॥ दुर्जनेभ्यो नमो येषां कारणाद् भगवान् हरिः । सर्वेषामपि भक्तानां बोभवीत्यक्षिगोचरः ॥८७॥ धिक शिष्टानु येषु सर्वत्र विराजत्सु धरातले । कार्याभावात् सदा निद्रां चाऽऽलस्यं श्रयते हरिः ॥८॥ किं भानि भान्ति गगने भ्राजमाने प्रभाकरे । दुष्टानां कः प्रभावः स्याच्छिष्टे राजनि राजति ॥८९॥ दिवाचरा इवोलूका द्विपदा इव मर्कटाः । सवस्त्रा इव भल्लूका दुर्जनास्सन्ति भूतले ॥१०॥ दुष्टा एवाऽत्र वन्द्या ये कष्टं प्रत्यस्य सन्ततम् । इष्टान् देवान् स्मारयन्तो धृष्टतां वारयन्ति नः ॥१॥ कारुण्यं न व्यञ्जयन्ति ग्राहनेत्राश्रुबिन्दवः । सूचयन्ति न सौजन्यं दुष्टवक्त्रेषु सूक्तयः ॥१२॥ आचार्यान् ये वञ्चयन्ते विनिन्दन्ति जिनानपि । मुनीन् ये च विघांसन्ति ते विनश्यन्तु दुर्जनाः ॥१३॥ पठन्ति भगवद्गीतां गङ्गाम्भसि लुठन्ति च । तथाऽपि दुर्जनाः स्वीयं न मुञ्चन्ति कठोरताम् ॥४॥ विधेर्वक्त्राणि चत्वारि रावणस्य दशाऽभवन् । सहस्रमादिशेषस्य परार्धं दुर्जनस्य तु ॥१५॥ कदाचिच्छत्रुरूपेण कदाचिन्मित्ररूपतः । कदाचित्पुत्ररूपेण जनान् हिंसति दुर्जनः ॥६॥ १५ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy