________________
हाईकु-काव्यानि डॉ. हर्षदेव माधवः
(१) आग्नेयकीटाः
पठितुं प्रयतन्ते तमो-हृदयम् ॥
(६) मनः कूर्दते
शरीररेलयानात् प्रभ्रष्टस्मृत्यै ॥
(११) सवस्ते पुरे
कस्मै पृच्छेच्छलभः पुष्पसङ्केतम् ॥
(२) कांश्चित् पादपान्
विहाय परकीयं सर्वं हि मह्यम् ॥
(७) शृङ्गं चालय
न्मेघपङ्के निमग्नं चन्द्र-वत्सकम् ॥
(१२) वृष्टिः / पादपान्
उन्मूलितान् मे मनः . प्ररोहयति ॥
(३)
गृहप्राङ्गणे मेघस्य पत्रकारा इन्द्रगोपकाः ॥
(८) पृच्छति भेकः
कुशलं पल्वलाय ग्रीष्मशुष्काय ॥
(१३) कुर्वन्ति भेकाः
श्रावणपुण्यस्नानं क्रोडैः पल्वले ॥
(४) वृष्टिः / मातरं
मार्गयति प्रभ्रष्टं कपि-शिशुकम् ॥
(९) पुराणी खट्वा
यौवनोन्माद-रमृतौ सजीवा जाता ॥
(१४) असुराक्रान्ता
रक्षाधीना वसन्ति देवालयेशाः ॥
वृष्टिः / कोटरे विद्युन्मूकं वेपते शुक-मिथुनम् ॥
(१०) मत्तोऽन्विष्यति
पशेष पल्वलं वृष्टौ वराहः ॥
(१५) नाऽभिजानन्ति
राजमार्गास्तिमिरं पुर-रथ्यानाम् ॥
8, Rajtilak Bunglow, Nr. Abadnagar, Bopal,
Ahmedabad-380058,M. 9427624516
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org