________________ पुस्तकानि वस्तुतो लिख्यन्ते खलु ! जनेषु पुस्तकानां प्रचारः प्रसारश्च यद्यल्पतमोऽस्ति तदा तत्कारणमेतन्नास्ति यद् विशालो जनसमुदायः पुस्तकपठनं न करोतीति; तत्कारणं त्वेतदेवाऽस्ति यज्जनसमक्षं यानि पुस्तकानि प्रस्तूयन्ते तानि "लिखितानि" न सन्ति, अपि तु केवलं "मुद्रितानि" एव सन्ति / यत्किमपि पुस्तकं पठनीयं तदैव भवेत् यदा तद् याथार्थ्येन लिखितं स्यात्, लेखनात्पूर्वं च विचारितं स्यात्, पुस्तकस्य च वस्तुतः सर्जनं जातं स्यात् / पुस्तकस्य भावि तल्लेखनस्य काव्यमयतां, सक्षमामालेखनप्रस्तुति, कल्पनाशीलतां चाऽवलम्बते / एतैरेतादृशैश्च गुणैर्युतं पुस्तकं लेखितुं यदि वयं सफला भविष्यामस्तदा पुस्तकस्य भावि निश्चितमस्ति, किन्तु यदि वयं केवलं पुस्तकमुद्रणमात्रेण सन्तुष्टा भविष्यामस्तदा तत्पठनं तु न भविष्यति सर्वथा, प्रत्युत कालगन्यां तत् तथा विलीनं भविष्यति यथा तन्नामाऽपि नाऽवशेक्ष्यति। - आल्बेर्टो मोराविआ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org