SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International राजानं वञ्चयित्वा च त्रासयित्वा च दुर्बलान् । दुर्जनोऽर्जति यत्तस्य तत्पापं वर्धयिष्यति ॥ ५४॥ निष्कारणं हसन् दन्तान् दर्शयंश्च कृताञ्जलिः । स्वार्थं संसाधयन् श्वेव द्वारि तिष्ठति दुर्जनः ॥५५॥ द्वेषे कारणे शीघ्रं कारणं तन्निवारयेत् । निष्कारणद्वेषिणः का दुर्जनस्य प्रतिक्रिया ॥ ५६ ॥ अन्तरं सज्जने नाऽस्ति नमस्कारे कृतेऽकृते । अकृते दुर्जनः कुप्येत्तदादौ नम दुर्जनम् ॥ ५७ ॥ शिवालयं समागत्य दुर्जनैर्भाषितं मिथः । श्रुत्वा हालाहलरसं देवः स्मरहरोऽस्मरत् ॥५८॥ अग्निं विषं खड्गधारां सर्पदंष्ट्रां च पद्मजः । स्मारं स्मारं दुर्जनस्य जिह्वां रम सृजति ध्रुवम् ॥५९॥ पितरं मातरं पत्नीं भ्रातरं सुहृदं गुरुम् । यो हन्ति दुर्जनोऽर्थाय क्च तस्य नरकः कृतः ॥६०॥ पण्डितान् अवजानीते याचकान् अवमन्यते । अतिथीन् ह्रेपयत्युक्त्या दुर्जनो मानुषाधमः ॥ ६१॥ एकचक्रपुरे येन पाण्डवा भिक्षुकाः कृताः । दुर्योधनो दुर्जनानां गुरु: केनाऽत्र वर्ण्यताम् ॥६२॥ दुर्जनत्वमहावार्धेस्तरङ्गाः सर्वतोमुखाः । कामक्रोधद्वेषलोभा दुर्निवाराश्च दुःखदाः ॥६३॥ दुर्जनाग्निमहाज्वाला दन्दहीति जगद्वनम् । सिक्तं सज्जनमेघाद्भिस्तत् कथञ्चित् प्ररोहति ॥ ६४ ॥ रूपं वस्त्रं वचोऽपि स्यात् समानं दुष्टशिष्टयोः । व्यङ्क्तः किन्तु तयोर्भेदं कृतघ्नत्वकृतज्ञते ॥ ६५ ॥ समस्तलोकोपकारी सज्जनः क्वाऽमृतप्रदः । समस्तलोकापकारी दुर्जनः क्व विषप्रदः ॥६६॥ सज्जनस्याऽवमानेन भूयस्तुष्यन्ति दुर्जनाः । हंस विद्राव्य सरसो बका हृष्यन्ति सर्वदा ॥ ६७ ॥ कैर्विना सरो भाति विना सर्पैश्च चन्दनः । दोषैर्विना भाति काव्यं दुर्जनैश्च विना सभा ॥६८॥ १३ For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy