________________
অনুচ্চ সুবিতে:
नन्दनवनकल्पतरोरेकोनविंशी सञ्चिका प्राप्ता । विविधविषयकैर्लेखैः काव्यैः कथादिभिश्च शाखेयं मनोज्ञा सुपठनीया च जाता । तत्राऽपि काष्ठच्छिदः कथाऽस्मभ्यमधिकतरं रुचिता यतस्तत्राऽऽधुनिकजनोचितां विचारधारां प्रति, मनुष्यस्य सङ्ग्रहवृत्तिं प्रति च सुष्ठ व्यङ्गः कृतोऽस्ति, आहत्य किञ्चन्नूतनं चिन्तनं प्रस्तुतमस्ति । एतस्य सर्वस्याऽपि च कृते भवद्भयो बहुशो धन्यवादाः ।
इति शम् - उपा. विश्रुतयशविजयः पादलिप्त(पालीताणा)पुरम्
*
*
*
नन्दनवनकल्पतरुशाखा एकोनत्रिंशी लब्धा, कीर्तित्रयी जयतु विद्वदभीष्टदानात् लोकस्य सद्विषयदर्शनकारिणीयम् । काश्मीरमेरुशिखरात् सहक्षिन्धुपूर्वकाम्भोजिनी भरतवर्षकुमारिकान्ता ॥ प्राकृतप्रकृति चाऽपि संस्कृतं सह यच्छतु । षट्प्राकृतस्य शिक्षायै क्वचित् कल्पतरुस्स्वयम् ।।
इति विज्ञापकः अरैयर् श्रीरामशर्मा
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org