SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ वेदोक्तस्य धर्मस्य संस्कृतेश्च विग्रहभूतोऽस्ति भगवान् श्रीरामचन्द्रः । तस्य प्रामाणिकमैतिहासिकं योगचक्षुषा च दृष्टं समग्रचरितं महर्षिणा वाल्मीकिना 'रामायणे' वर्णितम् । लोकमतेन तस्यैवाऽवतारभूतेन गोस्वामिना तुलसीदासेन हिन्दीभाषया भगवतः शिवस्याऽनुकम्पया परम्परया च सम्प्राप्तं 'श्रीरामचरितमानसम्' इति महाकाव्यं १६३१तमे विक्रमाब्दे प्रणीतम् । सुरभारत्यां पण्डितप्रवरेण हरिप्रसादद्विवेदिना श्रीरामचरित मानसस्य प्रणेतुर्गोस्वामिनः तुलसीदासस्य चरितं 'श्रीगोस्वामितुलसीदासचरितम्' इति महाकाव्ये प्रस्तुतम् । अस्यैव महाकाव्यस्य हिन्दी-आङ्ग्लभाषारूपान्तरेण साकं प्रकाशनं तत्सुपुत्रेण श्रीरामजीवनद्विवेदिना विहितम्। अस्मिन् महाकाव्ये एकादश सर्गा विलसन्ति । प्रथमे सर्गे - गोस्वामिनः तुलसीदासस्य जन्मस्थलस्य सूकरक्षेत्रस्य वर्णनं विद्यते । द्वितीये सर्गे - तस्य पूर्वजाः वर्ण्यन्ते । तृतीये सर्गे - १५६८तमे विक्रमाब्दे हुलसी पुत्रं (तुलसीदासं) प्रसूयते । चतुर्थे सर्गे - पितृविहीनः पितामह्या च पोषितः स नृसिंहस्य गृहे विद्याध्ययनं करोति ततश्च रत्नावली परिणयति । पञ्चमे सर्गे- स जायया सह सुखेन निवसति वसन्तादिष्वृतुषु । षष्ठे सर्गे - पत्न्यादिभिः साकं सोऽयोध्यां प्रयागं काशी च गच्छति । सप्तमे सर्गे - काश्यां तस्य पितामही दिवं प्रयाति । अष्टमे सर्गे तस्य पुत्रः तारापतिः दिवं प्रयाति, सोऽपि 'समतारि मदीश जाह्नवी भवता प्रेममयोडुपेन मे । प्रतरन्ति जना भवार्णवं भगवत्प्रेमतरिं समाश्रिताः ॥' (श्रीगोस्वामितुलसीदासचरितम् ८/५२) इति जाययाऽभिहितो गृहं परित्यजति । नवमे सर्गे - विरक्तः स नानापुराणनिगमागमसम्मतं श्रीरामचरितमानसं विनयपत्रिकादीन् ग्रन्थांश्च प्रणयति । दशमे सर्गे - स राजापुरं राजाख्ययतिना साधू गच्छति । एकादशे च सर्गे - तस्य विश्वविश्रुतां कृति (श्रीरामचरितमानसम्) भगवान् शङ्करः प्रतिष्ठापयति, स चाऽद्भुतयोगसिद्धीः प्रदर्श्य १६८०तमे विक्रमाब्दे साकेतलोकं प्रयाति । ग्रन्थात् प्राग् डा.विष्णुदत्तस्य 'भूमिका', सम्पादकस्य चाऽऽत्मनिवेदनं हिन्दीभाषया, ग्रन्थान्ते परिशिष्टभागे काव्येऽस्मिन् प्रयुक्तानि छन्दांसि, 'कविवंशसंक्षिप्तपरिचयः', चित्राणि च शोभन्ते । गोस्वामिनं तुलसीदासमधिकृत्य प्रणीते महाकाव्येऽस्मिन् पदे पदे करुणोपेतानि नितरां रम्याणि मार्मिकाणि च वर्णनानि विद्यन्तेतराम् । स्थालीपुलाकन्यायेन कानिचन पद्यानि दर्शनीयानि सन्ति । दिवङ्गतायां ताताम्बायां तुलसीदासः तज्जाया रत्नावली च विलपतः । 'मम त्वं सर्वस्वं भगवति समस्ते त्रिभुवने, न कञ्चित् पश्यामि त्वयि हि गतवत्यामिह निजम् । अहो शून्यं जातं हितकरदृशा मे जगदिदं, तदद्यत्वे धैर्यं कथमपि न बध्नानि हृदये ॥' (तदेव, ७/५९) 'विदेशं कल्याणि स्वजन इह याते हितवहे, धृतिः शक्या धर्तुं भवति पुनरायाणविषया । ४५ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy