________________
प्रयाणं ते पुण्ये ध्रुवमपुनरावर्तनपथे,
कथं दध्यां धैर्यं जननि तव याने निरवधौ । अहो ते पार्वेऽहं व्यथितहृदया रोदिमि भृशं,
दयाह्नयां कस्मान्मयि न दयसेऽनुग्रहवति । तथा देह्यादेशं यमनुविदधाना प्रतिदिनं,
लभेयं लोकेऽस्मिन् सुखमथ परत्राऽमृतपदम् ॥' (तदेव, ७/६४-६५) विविधानां छन्दसां, रीतिनामलङ्कराणां रसानाञ्चाऽपि प्रयोगे कवेनिपुणता, उदात्तभावानामभिव्यक्तौ पदानां मनोरमसमावेशः, रामादिवन्दनायां च वैदिकग्रन्थानां पाण्डित्यं, तीर्थस्थानानां च चित्रणे पुराणानां परिज्ञानं शास्त्राणाञ्चाऽध्ययनं सर्वथाऽभिनन्दनीयमस्ति । अस्य महाकाव्यस्य भाषाद्वये रूपान्तरं सम्पादकस्य भाषात्रयस्याऽद्भुतमधिकारं विशदीकरोति । स्थान-स्थाने पादटिप्पण्योऽपि ग्रन्थस्याऽस्याऽवबोधेऽसन्दिग्धं सहायिकाः सन्ति । तद् यथा
'कमनीयकलेवरं शिशुं चतुरं सौम्यगुणाकरं यदि ।
हृतवान् स्वसनाढ्यवंशजं भवितुं पञ्चसनः चतुःसन ॥' (तदेव, ८/२२) *चतुःसन - सनक सनन्दनः सनातनः सनत्कुमार इति चत्वारः सनयुक्ताः पुत्राः यस्य स चतुःसनो ब्रह्मा तत्सम्बुद्धौ हे चतुःसन ! ।
कमपि हिन्दीभाषाया महाकविमाश्रित्य प्रणीतमिदं महाकाव्यमतितरां विद्वज्जनान् प्रसादयति सुरभारतीकाव्यवैभवं च संवर्धयति । गोस्वामिनं तुलसीदासं परिहाय खल्वेष सम्मानो केनाऽपि न सम्प्राप्तः । मम मतौ - काव्येऽस्मिन् गोस्वामिनः तुलसीदासस्य जन्मस्थानं सूकरक्षेत्रमस्ति, स शुक्लास्पदो ब्राह्मणोऽस्ति, नन्ददासस्तस्याऽनुजोऽस्ति इत्यादि यत् कथितमस्ति, तत्परम्परया यद् मन्यते, रामचरितमानसस्य प्रमुखप्रकाशनकेन्द्रतः (गीताप्रेस, गोरखपुरतः) प्रकाशितेषु सकलेषु ग्रन्थेषु च महाकविकुलमौलेस्तुलसीदासस्य च यच्चरितं प्रस्तूयते, तस्य सर्वथा विपरीतमस्ति । तत्र गोस्वामिनो जन्म बाँदाजनपदस्य 'राजापुरम्' इति ग्रामेऽभिधीयते । तस्य जनकः आत्मारामदूबे सरयूपारीणो ब्राह्मणोऽभूत् । निखिला साधुपरम्परा तस्य जन्मस्थानं सूकरक्षेत्रमस्तीति वचनं नाऽङ्गीकरोति । किमपि स्यात् । महाकवि तुलसीदासमधिकृत्य प्रणीतं महाकाव्यमिदं सर्वैः विद्वद्वर्यैः मानसानुरागिभिश्च सर्वथा सङ्ग्राह्यमस्ति ।
x तस्मिन् रामपुरे किल भारद्वाजान्वयः परमविद्वान् ।
शुक्लास्पदः सनाढ्यो न्यवसन्नारायणो विप्रः ॥' (तदेव २/४) 'ततः समावर्त्य समाप्य विद्यां प्रपूज्य भक्त्या गुरुपादपद्मौ । ज्येष्ठोऽवसत्सौकरके स्वगेहे लघुस्तयो रामपुरं जगाम ॥' (तदेव ४/४९) सनाढ्यः = सनेन सम्भक्त्या, दानेन, तपसा च आढ्यः भक्तः दाता तपस्वी चेत्यर्थः । ब्राह्मणामको वर्गोऽपि सनाढ्यः।
४६
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org