Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
OR, THE LION AND THE BULL. Book I.
___Frame-story: Lion and bull.
132
दमनकः । मया तावत्पूर्वमेवाभिज्ञातम् । यथैवं स्वामी वक्ष्यति । स्वामिन् । न ते विदितम् । एतावानसाविति । तत्किं बहुना । तमेवेह पादानां सकाशमा३ नयामि । तच्च श्रुत्वा पिङ्गलकः प्रीतिहर्षविकसितनयनवदनकमल: परां तुष्टिमुपगतः । दमनको ऽपि पुनर्गवा संजीवकं साधिक्षेपमाह । एघहि । दुष्ट । स्वामी पिङ्गल
कस्ते व्याहरति । किं निर्भीभूत्वा पुन: पुनर्व्यर्थ नदसि । तच्च श्रुत्वा संजीवको ऽब्र6 वीत् । भद्र। क एष पिङ्गलको नाम । यो मां व्याहरति । ततः सविस्मयं विहस्य
दमनकस्तमाह । कथं स्वामिनं पिङ्गलकमपि न जानासि । फलेन ज्ञास्यसीत्यब्रवीत्सामर्षम् । नन्वयं मृगरासर्वमृगपरिवृतो मण्डलवटाभ्याशे मानोन्नतचित्तः स्वामी ७ पिङ्गलकस्तिष्ठति ।
तच्छ्रुत्वा संजीवको गतामुमिवात्मानं मन्यमान: परं विषादमगमदाह च । यदि मयावश्यमेवागन्तव्यम् । तदभयप्रदानेन मे प्रसादः क्रियतामिति । 12 दमनकस्तथा नामेति प्रतिपद्य सिंहसकाशं गत्वा निवेद्य तमर्थ लब्धानुज्ञो यथा
प्रतिपन्नस्तमुपनीतवान्सिंहसकाशं संजीवकम् । स च तस्य पीनवृत्तायतं नखकुलि
शाभरणालंकृतं दक्षिणं पाणिमुपरि दत्त्वा मानपुरःसरमब्रवीत् । अपि भवतः 15 शिवम् । कुतस्त्वमस्मिन्विजने वन इति । एवं पृष्टो यथापूर्ववृत्तान्तमात्मनः सार्थ
वाहवर्धमानकादियोगमाख्यातवान् । तच्च श्रुत्वा पिङ्गलकेनाभिहितः । वयस्य ।
न भेतव्यम् । मनवपरिरक्षिते ऽस्मिन्वने यथेप्सितमुष्यताम् । अपि च । भवता 18 मत्समीपविहारिणाजस्रं भवितव्यम् । यत्कारणम् । बहुपायमिदं वनमनेकसत्त्वसंकटवादिति ।
एवमुक्त्वा सर्वमृगपरिवृतो यमुनाकछमवतीर्य प्रकाममुदकपानं कृत्वा खैरप्रचार 21 पुनस्तस्मिन्नेव वने शिविरमनुप्रविष्टः ।
एवं तयोः पिङ्गलकसंजीवकयोः प्रतिदिनं प्रीतिपूर्वकं परस्परं कालो ऽत्यवर्तत । अनेकशास्त्रार्थप्रणिहितबुद्धिवाच्च संजीवकेनानभिज्ञोऽपि वन्यत्वात्पिङ्गलको उल्वेनैव 24 कालेन धीमान्कृतः । पञ्चानां चाहाराणां कवलकग्राहे चैतनिकाचैतनिकस्पर्धावलोक
नादिजाताना व्यवहारे ऽवस्थापितो ऽन्यश्च । पिङ्गलकसंजीवकावेव रहस्यानि मन्त्रयेते । शेषो मृगजन: सर्व एवैकमण्डलीकृतः । 27 सिंहपराक्रमव्यापादनाहारविरहाच्च केवलं शक्तिहीनत्वाद्दमनककरटकावेव क्षुधा बाध्येते । तदर दमनको ऽब्रवीत् । भद्र करटक । विनष्टावावाम् । यत्कारणम् । आत्मना कृतो ऽयं दोषः संजीवकं पिङ्गलकसकाशमानयता । साधु चेदमुच्यते । ___30 जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना ।
दूतिका तन्त्रवायेन त्रयो ऽनर्थाः स्वयं कृताः ॥ ५४ ॥ दमनक: करटकमाह ।
134
A35

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164