Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
63
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale i: Mouse and two monks.
Tale ii: Hulled grain for hulled grain.
विमानना दुश्चरितानुकीर्तनं कथाप्रसङ्गो वचनादविस्मयः । ३ न दृष्टिदानं कृतपूर्वनाशनं
विरक्तभावस्य नरस्य लक्षणम् ॥ ४४ ॥ सो ऽब्रवीत् । भद्र । न मन्युः करणीयः । पश्य । अयं मे मूषको • महतो ऽपकारान्करोति । भिक्षाभाजनप्रध्वंसान्न चाहमेनं शक्रोमि निवारयितुम् । सो ऽब्रवीत् । किमेष एकको ऽत्र मूषकः । उतान्ये ऽपि मूषकाः । सो ऽब्रवीत् । किमन्यैर्मूषकैः । अयं मां दुष्टो योगी9 वाजलं छलयति । तच्छृत्वासावाह । जूटकर्ण । न मूषकमात्रस्येदशी शक्तिर्भवति । किं तर्हि कारणेनात्र भवितव्यम् । उक्तं च।
नाकस्माच्छाण्डिली माता विक्रीणाति तिलैस्तिलान् । 1" लुञ्चिताल्लञ्चितैरेव कार्यमत्र भविष्यति ॥ ४५ ॥ जूटकर्ण आह । कथं चैतत् । सो ऽब्रवीत् ।
॥ कथा २॥ 15 अस्ति । अहं कदाचिदभ्यर्णासु वर्षासु कस्मिंश्चिदधिष्ठाने स्थितिग्रहणनिमित्तं कंचिद्ब्राह्मणमावासं प्रार्थितवान् । वर्षास्वतीतासु पुनर्विहारार्थं प्रहरशेषायां शवयाँ प्रतिबुद्धो ऽचिन्तयम् । 13 कतमेन दिग्भागेनावगन्तव्यम् । अथ युगपदसावपि ब्राह्मणस्तस्यां वेलायां प्रतिबुद्धो जालकान्तरितां भार्यामपृच्छत् । ब्राह्मणि । श्रूयताम् । श्वः पर्वकालो भविता। तत्र त्वया यथाशक्ति ब्राह्मण1 भोजनं कर्तव्यमिति । असावाह बहुपरुषाक्षरया गिरा । कुतस्ते ब्राह्मणभोजनस्य शक्तिरत्यन्तदरिद्रस्येति। एवमुक्तोऽसौ कूपे प्रक्षिप्त व न वचः किंचिदवोचत् । पुनरपि चिरादब्रवीत् । ब्राह्मणि ।

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164