Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
108
Book III. THE WAR OF THE CROWS AND THE OWLS. Tale vi: Ogre, thief, and Brahman.
Frame-story.
Tale vii: King sivi.
द्वावपि गत्वैकान्ते ऽवस्थितौ फलमवेक्षमाणौ । प्रसुप्ते च ब्राह्मणे ब्रह्मराक्षसस्तद्ग्रहणाय संश्लिष्टश्चौरेणाभिहितः । नैष न्यायः। गोयुगे ७ मयापहृते पश्चाग्रहीष्यसीति । सो ऽब्रवीत् । अयमप्यनयः । कदाचिदयं शब्देन प्रतिबुध्येत । ततो मे व्यर्थः स्यादागम इति । एवं
तयोः परस्परं वैरमुत्पन्नम् । अहंपूर्विकया च युगपत्प्रतिबोधित• वन्तौ ब्राह्मणम् । चौरस्तावदवोचत् । ब्राह्मण । ब्रह्मराक्षसस्त्वां
ग्रहीतुमिच्छति । ब्रह्मराक्षसो ऽप्याह । चौरस्ते गोयुगलमपहर्तमिच्छति । ततस्तावुभावपि चौरराक्षसावपयाताविति ।
A 228
अतो ऽहं ब्रवीमि । शत्रवो ऽपि हितायैवेति । अन्यच्च ।
शिविनापि स्वमांसानि कपोतार्थे महात्मना ।
श्येनाय किल दत्तानि श्रूयते पुण्यकर्मणा ॥ ८० ॥ 12 अपमर्द आह । कथं चैतत् । सो ऽब्रवीत् ।
A 229
॥ कथा ७॥ अस्ति राजा शिविर्नाम सकलभूपालमौलिमालार्चितचरणः 15 परमकारुणिकः सकलार्थिजनसंपादितमनोरथः । तस्यानन्यसदृ
शया दानशीलतया यशस्त्रिदिवमारोह । अथ कदाचिदाखण्डलश्चिन्तयामास । नास्ति दानशीलः शिविना तुल्याः । तत्को 18 ऽस्याभिप्रायः । कियद्वा सत्त्वमस्य । इति जिज्ञासायै धर्ममाहूय स्वयं कपोतो ऽभवत् । धर्मश्च श्येनः कपोतस्य पृष्ठतस्त्वरितगतिरभिभवितुं प्रवृत्तः । अथ तस्य राज्ञः सुखासनस्थस्य प्रभातसमय 1 एवास्थानगतस्यासौ कपोतः कम्पमानो भयतरलनेत्रतारकः करुण
रसितमाविष्कर्वश्चरणसमीपे सहसैव संनिपतितः प्रोवाच भयगद्गदया गिरा। राजन् । शरणागतोऽस्मि ते। परित्रायस्व मां श्येनात्।।

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164