Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 128
________________ 112 3 15 21 24 धपादपमूले संस्थाप्य पुनः स्नात्वा गृहाभिमुखः प्रायात् । मूषिकां च स्मृत्वाचिन्तयत् । नृशंसमेतन्मया कृतं मातृपितृपरिभ्रष्टां मूषिकां परित्यजतेति । एवमाकलय्य प्रतिनिवृत्य तां मूषिकां स्वतपोबलेन कन्यां कृत्वा गृहमानीयानपत्यायै भार्यायै प्रायच्छत् ' आह च । भद्रे ' प्रयत्नेनेयं संवर्ध्यतामिति । • अथ कालेन द्वादशवर्षे प्राप्ते विवाहकार्ये तस्या ऋषिश्चिन्तामापेदे ' यतः । Book III. THE WAR OF THE CROWS AND THE OWLS. Tale ix: Mouse-maiden will wed a mouse. पितुर्गृहे तु या कन्या रजः पश्यति चक्षुषा । वृषली सा तु विज्ञेया न शूद्री वृषली स्मृता ॥ ८६ ॥ अतो ऽहमेनां सदृशाय प्रयच्छामि । उक्तं च । 9 12 18 स एवं मत्वा भगवन्तं सहस्रकिरणमाहूयाभिहितवान् । विवाह्यतां मम दुहितेयमिति । असावपि लोकपालः सर्ववृत्तान्तप्रत्यक्षदर्शी तमाह । भगवन् । मत्तो मेघा बलवत्तराः । यत्कारणम् । अहमुदितो ऽपि तैरदृश्यः क्रिय इति । एवमेतदित्युक्त्वा मुनिर्मेघानाहूतवान् । गृह्यतां मे दुहितेति । ते ऽप्याहुः। अस्मत्तो ऽपि बलवान्वायुः । तेन वयमितश्चेतश्च दिग्भ्यो विक्षिप्यामहे । अथ तेन वायुराहूतः ' गृह्यतां मद्दुहितेति । एवमुक्तो ऽसावब्रवीत् । भगवन् । मत्तो बलवत्तराः पर्वताः ' यतो ऽहं तानङ्गुलमात्रमपि चालयितुमशक्तः । ततो ऽसावचलमाहूयाभिहितवान् । गृह्यतां मम कन्येति । स आह । नूनमचला वयम् । किंत्वजस्रं मूषकैर्गम्याः । तैरितश्चेतश्च शतच्छिद्राः क्रियामहे । एवमवधार्य मुनिना मूषक आहूयोक्तः । गृह्यतां मम कन्येति । ततो ऽसावाह। 1 ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥ ८७ ॥

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164