Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 158
________________ ॥ चतुर्थ परिशिष्टम् ॥ IV. B after 130, 8 (with B IV. iii). [A 296] साधु चेदमुच्यते । यान्येव बुद्धिस्खलितानि ननं 3 तान्येव बुद्धेः प्रतिबोधितानि । मनस्विनां तत्त्वविदा मनांसि भिषग्वराणीव चिकित्सयन्ति ॥ १८ ॥ फलान्यमृतकल्पानि परे शंसन्ति यानि मे । न तानि मम रोचन्ते रोचते मे ह्यदुम्बरः ॥ १९ ॥ शिसमारोऽब्रवीत् । कथं भवान्सत्यप्रतिज्ञां कृत्वायास्यामीति तथा प्रतिनिवृत्तः । ५ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ २० ॥ वानर आह । मूर्ख । खया सत्यवचनं मत्वा नाहं वञ्चयितुं शक्यः । उक्तं च । ___12 स्वार्थमुत्सृज्य यो मोहात्सत्यं ब्रूयान्न कालवित् । स कूपवाहवत्तिष्ठेद्युधिष्ठिर वापरः ॥ २१ ॥ कथमेतदिति पृष्टः स आह । [A 297] [A 298] [A 299] 15 कस्मिंश्चिदधिष्ठाने ऽरघट्टवाहः पुरुषः । स कदाचित्प्रमत्तः कूपे पतितः । पतमानश्च महता घटकर्परेण मुखे ऽभिहतः । ततः स रुधिरपरिष्वक्तगात्रः समुद्धृतः । कृतव्रणचिकित्सश्च जातनिर्वेदो 18 ऽचिन्तयत् । कष्टम् । नाहमधुना पुनरीदृशीं वृत्तिमभिलषामि ।

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164