Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
117
A 252
A 253
A 254
A 255
THE WAR OF THE CROWS AND THE OWLS. Tale x: Frogs ride & serpent.
Frame-story.
स्तानसावनुज्ञातो ऽभक्षयत् । कतिपयैरहोभिर्बलवान्संवृत्तः । सुपरितुष्टश्चान्तर्लीनमवहस्याब्रवीत् ।
मण्डूका विविधाहाराश्छलपूर्वोपसाधिताः ।
कियन्तं कालमक्षीणा भवेयुः खादतो मम ॥ १०९ ॥ अथ जातशङ्को जालपादः किमनेनाभिहितमिति तमपृच्छत् ।
6
किं त्वयाभिहितम् । यतो ऽसावाकारप्रच्छादनायाह । न किंचिदिति । पुनश्च प्रतिबोध्यमानो ऽब्रवीत् । स्वामिन् । मयै
तदुक्तम् ।
नाहं बुद्धिपरिभ्रष्टो नाहं मण्डूकवाहनः । कालमेव प्रतीक्षामि घृतान्धो ब्राह्मणो यथा ॥ ११० ॥
वरं वज्रविनिष्पिष्टो भवेच्छलो ऽङ्गियो ऽपि वा ।
12 मा विप्रशापनिर्दग्धं जन्माभून्मे कदाचन ॥ १११ ॥ अथैवं वर्तमाने जालपादः कृतकवचनव्यंसितमना नैवावबुध्यते । तत्किं बहुना । भक्षितास्तेन मण्डूकाः । बीजावशिष्टाः " प्रमुक्ताः ' ये ऽस्य वक्त्रे नानुविशन्ति ।
3
9
Book III.
यतो ऽहं ब्रवीमि । स्कन्धेनापि वहेच्छत्रुमिति । तत् । राजन् । यथा मन्दविषेण मण्डूका निहताः । तथा मयाप्यशेषाः शत्रवो हताः ।
18 वने प्रज्वालितो वह्निर्दहन्मूलानि रचति ।
समूलकाषं कषति वार्यांघो मृदुशीतलः ॥ ११२ ॥
मेघवर्ण आह । एवमेतत् । अपि च ।
21 महत्त्वमेतन्महतां नयालंकारधारिणाम् ।
न मुञ्चन्ति यदारम्भं कृच्छ्रे ऽपि व्यसनोदये ॥ ११३ ॥ तदेवं भवता निःशेषाः शत्रवः कृताः । सो ऽब्रवीत् । देव । एवमेतत् । 24 ऋणशेषमग्निशेषं शत्रुशेषं तथैव च ।
पुन: पुन: प्रवर्तेत तस्माच्छेषं न कारयेत् ॥ ११४ ॥ मेघवर्ण आह । साधु । ते निश्चयो व्यवसायश्च । अपि च ।

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164