SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 117 A 252 A 253 A 254 A 255 THE WAR OF THE CROWS AND THE OWLS. Tale x: Frogs ride & serpent. Frame-story. स्तानसावनुज्ञातो ऽभक्षयत् । कतिपयैरहोभिर्बलवान्संवृत्तः । सुपरितुष्टश्चान्तर्लीनमवहस्याब्रवीत् । मण्डूका विविधाहाराश्छलपूर्वोपसाधिताः । कियन्तं कालमक्षीणा भवेयुः खादतो मम ॥ १०९ ॥ अथ जातशङ्को जालपादः किमनेनाभिहितमिति तमपृच्छत् । 6 किं त्वयाभिहितम् । यतो ऽसावाकारप्रच्छादनायाह । न किंचिदिति । पुनश्च प्रतिबोध्यमानो ऽब्रवीत् । स्वामिन् । मयै तदुक्तम् । नाहं बुद्धिपरिभ्रष्टो नाहं मण्डूकवाहनः । कालमेव प्रतीक्षामि घृतान्धो ब्राह्मणो यथा ॥ ११० ॥ वरं वज्रविनिष्पिष्टो भवेच्छलो ऽङ्गियो ऽपि वा । 12 मा विप्रशापनिर्दग्धं जन्माभून्मे कदाचन ॥ १११ ॥ अथैवं वर्तमाने जालपादः कृतकवचनव्यंसितमना नैवावबुध्यते । तत्किं बहुना । भक्षितास्तेन मण्डूकाः । बीजावशिष्टाः " प्रमुक्ताः ' ये ऽस्य वक्त्रे नानुविशन्ति । 3 9 Book III. यतो ऽहं ब्रवीमि । स्कन्धेनापि वहेच्छत्रुमिति । तत् । राजन् । यथा मन्दविषेण मण्डूका निहताः । तथा मयाप्यशेषाः शत्रवो हताः । 18 वने प्रज्वालितो वह्निर्दहन्मूलानि रचति । समूलकाषं कषति वार्यांघो मृदुशीतलः ॥ ११२ ॥ मेघवर्ण आह । एवमेतत् । अपि च । 21 महत्त्वमेतन्महतां नयालंकारधारिणाम् । न मुञ्चन्ति यदारम्भं कृच्छ्रे ऽपि व्यसनोदये ॥ ११३ ॥ तदेवं भवता निःशेषाः शत्रवः कृताः । सो ऽब्रवीत् । देव । एवमेतत् । 24 ऋणशेषमग्निशेषं शत्रुशेषं तथैव च । पुन: पुन: प्रवर्तेत तस्माच्छेषं न कारयेत् ॥ ११४ ॥ मेघवर्ण आह । साधु । ते निश्चयो व्यवसायश्च । अपि च ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy