________________
116
Book III. THE WAR OF THE CROWS AND THE OWLS.
Tale x: Frogs ride a serpent.
॥ कथा १०॥
अस्ति कश्चित्परिणतवयाः कृष्णसर्पो मन्दविषो नाम । स एवं • समर्थितवान् । कथं नामानया वृत्त्या सुखं वर्तेयमिति । अथ बहुमण्डूकं ह्रदमुदवस्याधुतिपरीतमात्मानं प्रदर्शितवान् । उदकान्तर्गतेनैकेन मण्डूकेन पृष्टः । माम । यथापूर्वं कथं नानुष्ठानं क्रियत • इति । अतो ऽसावाह । भद्र। कुतो ऽमी मे मनोरथाः । हन्त । अद्य प्रथमप्रदोष एवाहारार्थ मण्डूकनिभेन ब्राह्मणसूनोरङ्गुष्ठो मया दष्टः । तत्समकालमसौ पञ्चत्वमागतः । तत्पित्रा दुःखार्तेनाहं • शप्तः । उक्तश्च । दुरात्मन् । यत्त्वया ममानपराधी सुतो भक्षितः । तेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसीति । तदहं युष्मान्प्रत्यागतो वाहनार्थम् । अथ ते हृष्टमनसः सर्व एव मण्डूकराने 19 जालपादाय निवेदितवन्तः । असावपि समन्त्रिपरिवारो ऽद्भुतमिव मन्यमानः ससंभ्रममुत्तीर्य तत्पृष्ठमाश्रितः । *तदनुक्रमशो |
यथास्थानभाज उपासिताः । अन्ये चानाप्नुवन्तो ऽनुपदं धावन्ति । 16 मन्दविषो ऽप्यात्मपुष्ट्यर्थमनेकप्रकारान्* गतिविशेषानदर्शयत् ।। अथ जालपादो लब्धस्पर्श एवाह।। __ *न तथा करिणा यानं रथेन तुरगेण वा। 18 नरयानेन नावा वा यथा मन्दविषेण मे ॥ १०८ ॥
अथ मन्दविषमन्येाश्छद्मग्लानं जालपादो ऽब्रवीत् । भद्र ।। किमद्य मन्दमन्दमुह्यते । न यथा पुरेति । स आह । देव । आहा॥ रवैकल्याच्छक्तिर्मे न यथापूर्वं वोढुम् । अथासावब्रवीत् । भक्षयात्र रुद्रानिति । स आह । ममापीयमाशा । किंतु पादीयाज्ञया कृतप्रसादी भक्षयिष्यामि । इति त्वदायत्तजीवितो ऽस्मि । तत