Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 140
________________ F OROUTIFY ॥ लब्धनाशं नाम चतुर्थ तन्त्रम् ॥ A 272 अतः परमिदमारभ्यते लब्धनाशं नाम चतुर्थ तन्त्रम् । यस्यायमाद्यः लोकः । | प्राप्तमर्थ तु यो मोहात्सान्त्वतः परिमुञ्चति । ____ स तथा वच्यते मूढो जलजः कपिना यथा ॥ १ ॥ A 273 A275 अस्ति । कस्मिंश्चित्समुद्रतीरे वलीवदनको नाम वानरराजः प्रतिवसति स्म । वृद्धत्वादसामर्थेन चान्येन नवयौवनसंपन्नेन कपिनातीवानलप्रताप्यमानहृदयेना 6 मर्षित्वाबद्धवैरेण तस्मात्स्वयूथानिरस्तः कालं यापयति स्म । A 274 कस्मिंश्चित्तीरे मधुगर्भो नामोदुम्बरः । तेनाहारेण प्राणयात्रां करोति । अथ कदाचित्तस्य भक्षयतः करादुदुम्बरफलं पतितम् । तेन चाम्भसि पतता मनोहरः 9 कलरव उत्पन्नः । तं श्रुत्वा वानरः पुनः पुनरन्यान्यदुम्बराणि प्रक्षिपति स्म । ___ अथ तस्याधस्तात्कृशको नाम शिशुमारस्तानि प्रकामतो लब्ध्वा भक्षयति स्म । उत्पन्नप्रीतिसौहार्दश्च वलीवदनस्तेन सह स्वयूथाचंशमपि विस्मृतवान् । शिशुमारो 12 ऽप्यतीव स्नेहाक्षिप्तहृदयः स्वगृहगमनकालक्षेपमकरोत् । A 276 अथ तस्य जाया सखीमध्यगता तद्विरहात्परितप्तहृदया । क्वासौ मम दयितः । किं बहिः करोत्यतिप्रसक्त्या । सुप्रभूतश्चाद्य काल: । त्रिवर्ग परिहार्यात्मानं नाव15 धारयति । अथ तस्याः सख्येकाब्रवीत् । कुतस्ते गृहं धनं वा तेन भर्चा । यस्य त्वं चरितानि न जानासि । स तु मया प्रत्यक्षमेव दृष्टः कयापि वानर्या सह समु. द्रतीरैकदेशे परमप्रीतिपुरःसरं रहसि रममाणः । तदेवं ज्ञात्वा यत्ते करणीयम् । 18 तदहीनकालं क्रियतामिति । A 277 तच श्रुत्वा शिशुमारभार्या परं मनस्तापमाप । सर्वव्यापारांश गृहगतानुत्सृज्य मलिनवसना तैलाभ्यक्तशरीरा शयनतलगताधृतिपरीतगात्री सखीपरिवृतावस्थिता । 21 शिशुमारो ऽपि वलीवदनप्रीत्यातिक्रान्तवेलो गृहमागतो ऽपश्यज्जायां तदवस्थाम् । अब्रवीच्चाविग्रहदयः । किमस्या अस्वास्थ्यकारणम् । इति परिजनमपृच्छत् । A 278

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164