Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
126
Book IV. THE LOSS OF ONE'S GETTINGS%3B
Frame-story: Ape and crocodile.
A284
A285
यच्च भवताभिहितम् । गृहगमनदारदर्शनेकपाचाभिसंबन्धी मया भवान्न कृतः । तकिमनेन । सामान्यजनस्वायं संबन्धः । अपि च । ___ 3 खले नटानामिव दारदर्शनं
गवामिवापार्थकमेव भोजनम् । सन्तः प्रकृत्वैव हि येन संगम 6 कुर्वन्त्ययत्नादपि तस्य यद्वितम् ॥ ८ ॥ सो ऽब्रवीत् ।
किमत्र चित्रं यदि सज्जनो जनः ० करोति विद्वज्जनसाधुपूजनम् । करोति यन्नीचकुलोद्भवो जन
स्तदद्भुतं शैत्यमिवार्कमण्डले ॥ ९ ॥ 12 तथापि ।
मित्रं वा बन्धुं वा नाति प्रणयपीडितं कुर्यात् ।
खं वत्समति पिबन्तं विषाणकोट्याक्षिपति धेनुः ॥ १० ॥ 16 तत् । भद्र । ममापि भवते किंचित्प्रत्युपकरणमस्ति । यो ऽयमन्तीपकः समुद्रमध्ये । अत्र मयाभिनवयौवनसंपन्ना रूपवत्यस्तिस्रो वानों दृष्टपूर्वाः प्रतिवसन्ति
स्म । अमृताखादतुल्याः कल्पवृक्षसदृशास्तरवः । तत्राहं त्वां पृष्ठमारोप्य प्रापयामीति । 18 एवमुक्तो ऽसावगमत्परं परितोषम् । आह च । साधु । भद्र । प्रियं ममेदम् । क्षिप्रं
मां तत्र प्रापयेति । अथासौ शिशुमारस्तं विनाशधर्माणं विश्वासोपगतं वानरं पृष्ठे गृहीत्वा मयंस्तं चिन्तयामास । कष्टम् । ___ स्वीकार्यमिदमत्वर्थ गरीयः सारमेव च ।
तदर्थ दारुणं कर्म निन्दामि च करोमि च ॥ ११ ॥ अथ मार्गे शिशुमारो वलीवदनकमाह । * * * * * * * * * * *
A 280
A 287
A 288
* * * दिति । तच्छ्रुत्वा वलीवदनकः स्वात्मानं गतासुमिव मन्यमानः परं विषादमगमत् । आह च । भद्र । शोभनं त्वया कृतम् । किंवादावेव नाख्यातम् । 27 अन्यथाहं तबृदयं गृहीत्वैवागतो ऽभविष्यम् । साधु चेदमुच्यते ।
आदावुत्सृज्य कार्याणि पश्चाच्च प्रार्थयन्ति ये ।
ते लोके हास्यतां यान्ति पलाण्डुहरणादिव ॥ १२ ॥ 80 शिशुमार आह । कथमेतत् । सो ऽब्रवीत् ।
A 289

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164