Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 141
________________ 125 THE LOSS OF ONE'S GETTINGS. Frame-story: Ape and crocodile. 12 कथम् । मूकतया न काचिदपि सखी कथयति स्म । सादरमेव मुहुर्मुहुरपृच्छत् । अथ तत्रैका द्वितीयमिव हृदयं शिशुमारभार्यायाः । सा परमावेगं सूचयन्त्यब्रवीत् । 3 आर्य । अशक्यो ऽयं व्याधिरस्याः । विनष्टा नामेयमिति मन्तव्यम् । नास्याः प्रत्यापत्तिरस्ति । एतच्छ्रुत्वा शिशुमारः परं विषादमगमत् । प्रियकलत्रतया चाब्रवीत् । यदि मज्जीवितेनापि कुशलमस्याः । तदिमे प्राणा उपयुज्यन्तामेतदर्थमिति । सा• ब्रवीत् । भद्र । अस्त्युपाय एक एवास्या व्याधेः । यदि वानरहृदयोपपत्तिरस्ति । ततो ऽस्या जीवितम् । अन्यथातिक्रान्ता नामेयमिति । एतत्स्त्रीरहस्यमिति । ततो ऽसावचिन्तयत् । कथं वानरहृदयस्य लाभो ऽन्यत्र वलीवदनकात् । तद9 प्यतिगर्हितं धर्मविरुद्धं च । अथवा । किं कलत्रं प्रधानं स्यादुत मित्रं गुणाधिकम् । कलत्रमित्रयोर्नूनं कलत्रमतिरिच्यते ॥ २ ॥ Book IV. तस्मात्चिवर्गो ऽविकलखतो मित्रं ततो यशः । सर्वलोकान्वितं चैव कस्तन्न बहु मन्यते ॥ ३ ॥ 15 यत एवमवस्थिते ऽवश्यमेवेदमितः संभावयामि । कस्मात् । एक: सखा प्रियो भूय उपकारी गुणान्वितः । हन्तव्यः स्त्रीनिमित्तेन कष्टमापतितं मम ॥ ॥ 18 बहुधैवं विचिन्त्य गमनव्याहतमना वलीवदनकं मन्दं मन्दमुपश्लिष्टः । तेन चाभिहितः । भद्र । किमद्य व्याक्षेपकारणं भवतः । सो ऽब्रवीत् । वयस्य । दुःखमि - दमुच्यते । न शक्नोमि भवतो ऽतिप्रसङ्गं कर्तुम् । यत्कारणम् । एतावतापि काले21 नैकान्तोपकारिणो भवतो न मया किंचिदपि प्रत्युपकर्तुं शक्तिम् । अपि च । प्रयोजनवतीं प्रीतिं लोकः समनुवर्तते । त्वं तु वानरशार्दूल निष्प्रयोजनमत्सरः ॥ ५ ॥ 24 अथवा युक्तमेवेदं भवतः । उपकर्तुमनुपकर्तुः प्रियाणि कर्तुः कृतान्यनुस्मर्तुम् । विनिपतितांश्च कुलान्वितानामुचितमेतत् ॥ ६ ॥ 27 सो ऽब्रवीत् । नन्वयमेवासमो विकारः । यत्स्वदेशबन्धुपरित्यागे ऽपि कृते संपन्नप्रीतियोगाद्भवन्तमाश्रित्यानुद्विमः सुखं यापयामीति । साध्विदमुच्यते । शोकारतिभयत्राणं प्रीतिविस्रम्भभाजनम् । 30 केन रत्नमिदं सृष्टं मित्रमित्यचरद्वयम् ॥ ७ ॥

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164