Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
127
1
?
6
OR, THE APE AND THE CROCODILE. Book IV. Tale i Punished onion-thief.
॥ कथा १ ॥
3
अस्ति कस्मिंश्चिन्नगरे पलाण्डुचौरो गृहीतः । स च संयम्य राजकुलं नीतः । उक्तश्च धर्माधिकारकैः । भद्र' रूपकशतं दण्डं प्रयच्छ' कशाप्रहारशतं वा सहस्व । पलाण्डुशतं वा भक्षयस्वेति । अन्यथा नास्ति ते मोक्ष इति । अथ मूढमतिरसौ व्यजिज्ञपत् । पलाण्डुं भक्षयामि । इत्युक्त्वा यावत्सप्ताष्टौ पलाण्डुस्तम्बुकानि भक्षयति । तावत्कटुकत्वात्स्रवन्नेचनासापुटः प्रकटितफेनपूरितवदनः प्रोवाच । नास्मि भक्षयितुं समर्थः । न च रूपकशतं दातुम् । यतः कशाताडनमेव सोढुं वरयामि । अथ कशाप्रहाराः कतिचिदस्मै यावद्दीयन्ते । तावदुच्चैः प्रोवाच । नाहमेतानपि सोढुं शक्तो रूपकशतं ददामि सोदयम् । तन्मां परित्रायध्वमिति । एवं गतो जनहास्य12 ताम् ' स्वशरीरकदर्थनां चाप्तवान् ।
9
Frame-story.
अतो ऽहं ब्रवीमि । आदावुत्सृज्य कार्याणीति । तदहमहृदयः किं तत्र गत्वा करिष्यामीति । तथा च कृतार्थस्य शोभनं त्वज्जायासकाशगमनम् । उक्तं च । 15 धर्ममर्थ च कामं च त्रितयं यो ऽभिवाञ्छति ।
सो sरिक्तपाणिः पश्येत ब्राह्मणं नृपतिं स्त्रियम् ॥ १३ ॥
1
तत् । सखे । हस्तगतेन हृदयेन त्वज्जायामुखं पश्यामि । असावाह । क्व तद्दृद18 यम् । वानरो ऽब्रवीत् । तस्मिन्नेवोदुम्बरे । शिशुमारो ऽचिन्तयत् । व्यर्थः को ऽयमारम्भः । मित्रवधादपि तदवस्थानमेव व्याधिकारणम् । आह च । भद्र । गच्छावः शीघ्रं हृदयार्थम् । सो ऽब्रवीत् । वयस्य । एतदर्थं यदि कारणं भवतः । तच्छीघ्रं 21 प्रापयेति ।
सो ऽब्रवीत् । नूनम् । इति प्रतिनिवृत्य तस्मिन्नुदुम्बरे बहुमनोरथो वानर उत्त्य शाखामधिरूढो ऽचिन्तयत् । हन्त । लब्धाः प्राणाः । शिशुमारस्त्वधस्ताद - 24 ब्रवीत् । भद्र । तद्दृदयं गृहीत्वा गच्छावः । स विहस्याब्रवीत् । मूर्ख । किं शरीराद्वहिर्हदयं तिष्ठति ।

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164