Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
137
APPENDIX. Tale i: Treacherous bawd.
राजदण्डेन न भवामि । न चाहमेकाकिनी वृद्धा चोपभुक्तभोगमेदुरमेनं प्रत्यक्षं हन्तुं समर्था । मन्त्रभेदभयाच्चात्र कर्मणि मम • सहायग्रहणमनुपपन्नम् । न चैतस्य धूर्तस्य विषप्रयोगः संपद्यते । संपन्ने वा सति महाननर्थः । यतो मद्दहिता दोहन्येतेन विना न किमपि भुते । न चायं तां विना । तस्मादेतयोः सुखस्वापी 6 यदा भवति । तदैवैनमधीद्वारविषप्रयोगेण हन्तुमवसर इति निश्वयमकार्षीत् । अथ कस्मिंश्चिद्विशेषदिने स्वधनेनानीतमधमांसादिना तयोस्तर्पणमकरोत् । ततो हि हर्षेण तर्पणोत्कर्षेण विश्वा• सप्रकर्षेण च सुखसुप्तयोः सतोरेकहस्तगृहीतखण्डक्षीरपात्रा। द्वितीयहस्तगूढगृहीतविषचूर्णपूर्णनाडीका शङ्कमाना कम्पमाना च
शनैः पर्यङ्कनिकटमगमत् । ततो नीचैः पादतल उपविश्य शनैर्नि12 वारितप्रावरणे नितम्बद्वारे विषपूर्णां वंशनाडी न्यवेशयत् । ततः कुट्टन्यामाध्मानार्थमास्यं प्रसारयन्त्यामेव तस्य कामिनो ऽधीवातः
सवेगं निरगमत् । तेनाधीवातवेगेन कण्ठनाडीपथनिमग्नविषा 15 सद्य एव जीवितमजहदिति ।
अतो ऽहं ब्रवीमि। परद्रोहेण भोगाशेति। तस्मात् । &c. 104, 1.

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164