Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 138
________________ 122 3 तुङ्गश्चायं वनस्पतिरवलोकयितुमपि न शक्यते ' किं पुनरारोढुम् । तत्कथमत्र मया जालवितानं कर्तव्यम् । अथास्त्युपायः । अस्य तरोरधस्तादतिमुक्तकान्रोपयिष्यामि । येन तदारूढवलयनिकरः सुखारोहो भविष्यति । इति चिन्तयतस्तस्य नक्षत्रचक्रशोभिताययौ क्षणदा । अथासावपि हंसराजो हंसपरिवृतः क्षपां क्षपयित्वा यथेष्टां दिशमाहारार्थमुपगतः । ते शाकुनिकोप्ताश्चातिमुक्तकाः क्रमेण संवर्धितुमारब्धाः । यतो दृष्ट्वा वृद्धहंसो ऽमृतप्रभो नाम तान्हंसानाहूय जराजर्जरितस्वर इदमाह । भोः । किं न पश्यथ । अयं महाननर्थः । केनाप्यपुण्यभाजा विनाशमस्माकं चिकीर्षतातिमुक्तका रोपिताः। यावदेते ऽल्पाङ्कुराः ' तावच्चच्चाघातैः शीघ्रमुन्मूल्यन्ताम् । अन्यथा दुश्छेद्ये ऽस्मिन्वनस्पतावारूढो व्यक्तमस्मान्न चिरादेव नाशयिष्यतीति । उक्तं च । 9 6 12 18 21 24 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale xi: Goose and fowler. नोपेक्षितव्यो विद्वद्भिरनर्थो ऽल्पो ऽप्यवज्ञया । वह्निरल्पो ऽपि संवृद्धः कुरुते भस्मसाद्वनम् ॥ १४२ ॥ ततस्तस्यैवं वदतस्ते यौवनमदान्धाः किमयं वृद्धः प्रलपतीत्यु - त्वावधीरितवन्तः । कालेन चाल्पीयसा वल्लीवल्लितशाखानिवहः स शाखी संवृत्तः । स च हंससमूहो यथाभिमतं दिग्भ्यः प्रत्यहमाहारकृत्यं कृत्वा निशामतिवाहयति स्म । एकदा त्वसौ शाकुनिकस्तस्मिंस्तरुशिखरे जालं वितत्य गृहं जगाम । बद्धं च रात्रौ हंसयूथमुत्पतितुमक्षमं सहसैवोत्कूजितम् । ततो विपरिवर्तमानपक्षावलीवलितशिरोधरमतीव कोलाहलमकरोत् । तदवसाने चामृतप्रभो वृद्धहंसः परिशुष्ककण्ठो दीनस्वनः पुनरपि तानब्रवीत् । मूर्खाः । कथमस्मदीयवचनमवधीरयद्भिरवाप्तं फलमधुना । किमत्र करिष्यथ । इत्युक्त्वा तूष्णीं बभूव । अथ ते सर्व एव 15

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164