Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
121
THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story.
Tale xi: Goose and fowler.
दुःसंरक्ष्यं प्रार्थितं सर्वभूतेचित्रं यन्त्रं दम्भगाम्भीर्यवाहि । 3 वहिस्पर्श लोमहर्षावनद्धं __ मृत्योरं वज्रदंष्ट्रेव राज्यम् ॥ १३९ ॥ तेन ह्यवाप्य भोगान्ससुहृदः सुखानि सेवध्वम् । उपभोगसारा विभूतयः । अनु6 पभोगमिष्फला लक्ष्मीरन्यप्रकारा दरिद्रता । तन्नरेन्द्रता नामेयं नयानयाभ्यामलंक्रियते । कथम् ।
श्रुतेन बुद्धिर्व्यसनेन मूर्खता 9 मदेन नागः सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना
मयेन चालजियते नरेन्द्रता ॥ १४० ॥ 12 स च नयो नाम सकलराज्यार्थमन्त्रधारिणां वृद्धानामविकल्पवचनकारित्वम् । तद्भवतामच्छरीराभावे ऽपि राज्ययौवनमदमत्तेन भूत्वा न वृद्धवचनमवमन्तव्यम् । अपि च ।
15 वृद्धवाक्यं हि कर्तव्यं नरेन्द्रेणार्थसिद्धये ।
हंसयूथं वने बद्धं वृद्धवाक्याद्विमोक्षितम् ॥ १४१ ॥ मेघवर्ण आह । कथमेतत् । सो ऽब्रवीत् ।
18 ॥ कथा ११॥ अस्ति कस्मिंश्चिन्महावने सकलतरुष्विवाधिपतिरुत्तुङ्गशिखरो निरन्तरदलसंरुद्धदिवसकरकरनिवहो महाञ्छल्मलिवृक्षः । तस्मि4 न्दुरारोहतया निर्भीरनेकहंसकुलपरिवृतः क्षीरोदो नाम हंसराजः प्रतिवसति स्म । कदाचिच्छाकुनिकस्तद्वनमटमानो ऽस्तशिखरगते भगवति सवितरि तस्य शल्मलेरधः पर्यटनखिन्नो निषसाद। अत्रा४ न्तरे हंसराजः सकलहंसकुलकोलाहलेनाशामुखं मुखरयञ्छिखरिणमालीनः । अतस्तं दृष्ट्वा शाकुनिकः क्रूरकर्माचिन्तयत् । अहो। विधातुरचिन्त्यः प्रभावः । न मया सकलवनराजिमण्डलभ्रमणखि- नेनापीदं श्रोत्रमनोह्लादि हंसकुलमयत्नेनैवासादितम् । अन्यच्च ।।

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164