Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 131
________________ 115 THE WAR OF THE CROWS AND THE OWLS. Book III. ___Frame-story: War of erows and owls. सहते सुहृदिव भूत्वा प्राज्ञः शक्तिक्षये निराकारः । काख प्रतीक्षमाणः प्रीतिप्रच्छादिताशक्तिः ॥ ९९ ॥ 3 तत्किं बहुना । न तादृङ्मया मूर्खसमागमो दृष्टपूर्वो वर्जयित्वक रक्ताक्षम् । तेन तु मम यथावस्थितं हगतं ज्ञातम् । अन्ये ते पुनर्नाममात्रमन्त्रिणः । किं तैः । एतद्यैर्न विज्ञातम् । 6 अरितो ऽभ्यागतो मित्रः शत्रुसंवासतत्परः । सर्पसंवासधर्मित्वान्नित्योद्वेगेन दूषितः ॥ १०० ॥ लक्षन्यग्रोधबीजाना कपोतादिव शाल्मलेः । १ मूलोत्खातकरो दोषः पचादपि भयंकरः ॥ १०१ ॥ आसने शयने याने पानभोजनवस्तुषु । दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्यरयो ऽरिषु ॥ १०२ ॥ 12 तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं बुधः । आत्मानमादृतो रक्षेत्प्रमादाद्धि विनश्यति ॥ १०३ ॥ साधु चेदमुच्यते । 15 संतापयन्ति कमपध्यभुजं न रोगा दुर्मन्त्रिणं कमुपयाति न नीतिदोषः । कं श्रीन दर्पयति किं न निहन्ति मृत्युः 18 के स्त्रीकृते न विषयाः परितापयन्ति ॥ १०४ ॥ स्तब्धस्य नश्यति यशो विषमस्य मित्रं नष्टक्रियस्य कुलमर्थपरस्य भृत्याः । 21 विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ १०५ ॥ मढेषु शोकञ्चपलेषु कोपः 24 कान्तेषु कामो निपुणेषु विद्या । धर्मो दयावत्सु महत्सु धैर्य शुष्कन्धने वहिरुपैति वृद्धिम् ॥ १०६ ॥ 27 तत् । राजन् । यत्त्वयोक्तम् । असिधाराव्रतमिवारिसंपर्को ऽनुभूत इति । तत्सत्यम् । किंतु । स्कन्धेनापि वहेच्छयूँ कालमासाद्य बुद्धिमान् । 30 वहता कृष्णसर्पण मण्डूका विनिपातिताः ॥ १०७ ॥ सो ऽब्रवीत् । कथं चैतत् । चिरजीव्याह ।

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164