Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
110
A 230
A 231
A 232
A 233
12
18
Book III. THE WAR OF THE CROWS AND THE OWLS. Tale viii: Cuckold wheelwright.
21
Frame-story.
॥ कथा ८ ॥
9
।
15
अस्ति कस्मिंश्चिदधिष्ठाने रथकारः । तस्य भार्या व्युत्पन्नचारित्राजस्रं मित्रस्वजनैः प्रतिबोध्यते ' न च तस्मात्परपुरुषसंसर्गान्निवर्तते । यतो ऽसौ जिज्ञासुस्तामाह । भद्रे । विप्रकृष्टे देशान्तरे राजकीयो मण्डपः कर्तव्यः । तत्र मया वो गन्तव्यमिति । तया च तुष्टया यथाज्ञप्तमेव शम्बलं कृतम् । तथा चानुष्ठिते गृहीतोपस्करपथ्योदनः प्रहरशेषायां शर्वर्यां तामाह । गतो ऽहम् ' भद्रे । द्वारं संवृणीष्वेति । तक्ष्त्वा चाविज्ञात एव प्रतिनिवृत्त्य स्वशय्याधस्तादात्मद्वितीयः सह शिष्येणावस्थितः। असावपि हृष्टहृदयाद्य मम निरङ्कुशो दयितजनसमागम इति दूतिकया विटमानाय्य तत्रैव निर्विशङ्कपानभोजनाद्यनुष्ठितवती । कथमपि चाप्राप्तरतयैव पादौ चालयन्त्या जानुप्रदेशे रथकारः स्पृष्टः । ततो ऽसावचिन्तयत् । असंशयं स एव रथकारो भविष्यति । तत्कथं करणीयमिति । अस्मिंश्चान्तरे सशपथं विटेनाभिहिता । कथय । मम वा भर्तुर्वा तव कः प्रिय इति । यतस्तया प्रतिपत्तिकुशलयाभिहितः । प्रष्टव्यं पृच्छसि । स्त्रियो हि नामैता लघुधर्मिण्यो यत्किंचनप्रवृ24 त्ताश्च । किं बहुना । यद्यासां नासिका न स्युः । असंशयममेध्य
अतोऽहं ब्रवीमि । शिविनापि स्वमांसानीति । तत्रायं शरणागतो न हन्तव्यः । ततोऽनन्तरं प्राकारकर्णः पृष्टः । स एवमेव समर्थितवान् ।
3 अथान्तर्लीनमवहस्य रक्ताचः पुनरब्रवीत् । कष्टम् । विनाशितो ऽयं स्वामी युष्माभिरनयेन । उक्तं च ।
प्रत्यक्षे ऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
6 रथकारः स्वकां भार्या सजाएं शिरसावहत् ॥ ८१ ॥
ते प्राहुः । कथं चैतत् । सो ऽब्रवीत् ।

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164