SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 108 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale vi: Ogre, thief, and Brahman. Frame-story. Tale vii: King sivi. द्वावपि गत्वैकान्ते ऽवस्थितौ फलमवेक्षमाणौ । प्रसुप्ते च ब्राह्मणे ब्रह्मराक्षसस्तद्ग्रहणाय संश्लिष्टश्चौरेणाभिहितः । नैष न्यायः। गोयुगे ७ मयापहृते पश्चाग्रहीष्यसीति । सो ऽब्रवीत् । अयमप्यनयः । कदाचिदयं शब्देन प्रतिबुध्येत । ततो मे व्यर्थः स्यादागम इति । एवं तयोः परस्परं वैरमुत्पन्नम् । अहंपूर्विकया च युगपत्प्रतिबोधित• वन्तौ ब्राह्मणम् । चौरस्तावदवोचत् । ब्राह्मण । ब्रह्मराक्षसस्त्वां ग्रहीतुमिच्छति । ब्रह्मराक्षसो ऽप्याह । चौरस्ते गोयुगलमपहर्तमिच्छति । ततस्तावुभावपि चौरराक्षसावपयाताविति । A 228 अतो ऽहं ब्रवीमि । शत्रवो ऽपि हितायैवेति । अन्यच्च । शिविनापि स्वमांसानि कपोतार्थे महात्मना । श्येनाय किल दत्तानि श्रूयते पुण्यकर्मणा ॥ ८० ॥ 12 अपमर्द आह । कथं चैतत् । सो ऽब्रवीत् । A 229 ॥ कथा ७॥ अस्ति राजा शिविर्नाम सकलभूपालमौलिमालार्चितचरणः 15 परमकारुणिकः सकलार्थिजनसंपादितमनोरथः । तस्यानन्यसदृ शया दानशीलतया यशस्त्रिदिवमारोह । अथ कदाचिदाखण्डलश्चिन्तयामास । नास्ति दानशीलः शिविना तुल्याः । तत्को 18 ऽस्याभिप्रायः । कियद्वा सत्त्वमस्य । इति जिज्ञासायै धर्ममाहूय स्वयं कपोतो ऽभवत् । धर्मश्च श्येनः कपोतस्य पृष्ठतस्त्वरितगतिरभिभवितुं प्रवृत्तः । अथ तस्य राज्ञः सुखासनस्थस्य प्रभातसमय 1 एवास्थानगतस्यासौ कपोतः कम्पमानो भयतरलनेत्रतारकः करुण रसितमाविष्कर्वश्चरणसमीपे सहसैव संनिपतितः प्रोवाच भयगद्गदया गिरा। राजन् । शरणागतोऽस्मि ते। परित्रायस्व मां श्येनात्।।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy