________________
107
THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story.
Tale vi: Ogre, thief, and Brahman.
A 225a
वदत्सु दीनं शरणागतेषु कृतोपकारेषु भये सुखे च । 3 घृणा हि येषां न रणद्धि रौद्रता शिलोच्चयास्ते प्रतिकूलराशयः ॥ ७६ ॥ सर्वोत्पत्तिसमृद्धस्य नाश्वमेधस्य तत्फलम् ।
6 यत्फलं भय उत्पन्ने रक्षिते शरणागते ॥ ७७ ॥ तदपि श्रुत्वा दीप्ताक्षं पृष्टवान् । भद्र । कथं मन्यसे । सो ऽब्रवीत् । देव । निश्चितमेव शरणागतः शत्रुरवध्य इति । - 9 श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैश्च तर्पितः ॥ ७८ ॥ अपि च । अयं तैर्विप्रकृतः । देव । अस्माकं पुष्टये तदवसादाय च भविष्यति । 12 तदयमवध्य इति ।
तदवधार्यापमर्दो वक्रनासं पृष्टवान् । अत्र भवान्कथं मन्यते । सो ऽब्रवीत् । देव । अवध्यो ऽयमिति । यत्कारणम् ।
16 शववो ऽपि हितायैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ॥ ७९ ॥ स आह । कथं चैतत् । असावकथयत् ।
A225b
A226
A 227
18 ॥ कथा ६॥ अस्ति कस्यचिद्दरिद्रब्राह्मणस्य प्रतिग्रहलब्धमा बालभावामृततैललवणंयवसयोग्याशनसंवर्धितं गोयुगलम् । तच्च दृष्ट्वा चौरः क1 श्चिदेवं समर्थितवान् । अद्यैव तद्धरिष्यामीति । प्रथमप्रदोषसमये गन्तुमारब्धः । गच्छंश्च केनाप्यविज्ञान स्कन्धप्रदेशसंश्लिष्टः । अथ तेन पृष्टः । को भवानिति । स च सत्यवचनमाह । नक्तंचरो ऽहं 24 ब्रह्मराक्षसः । भवान्कथयतु । कस्त्वमिति । सो ऽब्रवीत् । अहं चौरः । कस्यचिद्ब्राह्मणस्य गोयुगलं हर्तुमिच्छामि । अथ विज्ञातप्रत्ययो ऽसावाह । अहमपि तं ब्राह्मणं ग्रहीतुमिच्छामि। ततस्तो