________________
106
Book III. THE WAR OF THE CROWS AND THE OWLS.
Frame-story: War of crows and owls.
A220a
तद्वरमनारम्भः । न त्वारब्धविनाशः । यतो ऽहमेषां स्वशब्दश्रावणादात्मानं दर्शयामीति । एवमनुचिन्त्य मन्दमन्दं वाशितवान् । तत्संनिकृष्टस्थाः श्रुत्वोलूका वाय3 सस्थायं शब्द इत्यवधार्य स्वामिने न्यवेदयन् । तच्च श्रुत्वा कौतुकपरो ऽपमर्दो ऽवतीर्य व्यक्तं साधयित्वा सचिवानब्रवीत् । पृच्छ्यताम् । कस्त्वमिति । पृष्टश्चासावक
थयत् । अहं चिरजीवीति । तच्छृत्वापमर्दः परं विस्मयमगमत् । आह च । अयं 6 तस्य राज्ञो ऽभिमतो मुख्यो मन्त्रधरः । किमयं तैर्निरस्तो ऽभिशस्तश्च । स एवं
पृष्टस्तमाह । स्वामिन् । श्रूयताम् । अस्ति । किंचित्समुत्सादनं कृत्वा युष्मास्वपयातेषु मेघवर्णो हतशेषान्सैनिकान्दृष्ट्वा परं विषादमगमत् । मन्त्रिभिः सह संप्रधारितवान् । • किं बहुना । वद्विनाशाय प्रारब्धमिति । ततो मयाभिहितम् । ते बलवन्तः । वयं हीनाः । तत्सर्वथा प्रणतिरेव तेभ्यो ऽस्माकं शिवायेति । उक्तं च ।।
बलीयसा हीनबलो विरोधं 12 न भूतिकामो मनसापि कुर्यात् ।
न वध्यते वेतसवृत्तिरथै
रेकान्तनाशो ऽस्ति पतंगवृत्तेः ॥ ७१ ॥ 13 अपि च ।
गुणवानेव नमते पुरुषः कार्मुको यथा ।
निर्गुण: स्तब्धतामेति पुरुषः कार्मुको यथा ॥ ७२ ॥ A 220b 18 ततो ऽहं त्वत्पक्ष इति मत्वा निरपेक्षैरिमामवस्था प्रापितः । A 221 तच्च श्रुत्वापमर्दः पितृपैतामहैर्मन्त्रिभिः सहावधारितवान् । रक्ताक्षक्रूराक्षदीप्ता
क्षवक्रनासप्राकारकणैः । अत्रादौ रताळं पृष्टवान् । भद्र । किमेवं गते न्याय्यमिति । 21 सो ऽब्रवीत् । किमत्र चिन्त्यते । अविचार्य हन्तव्यो ऽयम् । यत्कारणम् ।
हीन: शत्रुनिहन्तव्यो यावन्न बलवान्भवेत् ।
संजातबलपौरुष्यः पश्चाद्भवति दुर्जयः ॥ ७३ ॥ अपि च । स्वयमुपगता श्रीस्त्यज्यमानाभिशपतीति लोकप्रवादः ।
कालो हि सकृदभ्येति यन्नरं कालकाविणम् ।
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता ॥ ७४ ॥ A 22327 तदस्मिन्हते राज्यमकष्टकं भविष्यतीति । उक्तं च । ।
अमित्रं न विमुञ्चेत ब्रुवाणं करणान्यपि ।
दुःखं तत्र न कर्तव्यं हन्यात्पूर्वापकारिणम् ॥ ७५ ॥ 80 ततो ऽनुक्रमेण कूरातमाह । भद्र । एवं गते ऽस्य किं कर्तव्यमिति । सो ऽब्रवीत् । देव । अवध्यो ऽयम् । यत्कारणम् ।
A 222
A 224