SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 105 THE WAR OF THE CROWS AND THE OWLS. Book III. Tale v: Brahman, goat, and three rogues. Frame-story. स्कन्धे करिष्यामि । यावदन्यौ द्वौ धूर्ती संप्राप्तौ । ताभ्यामपि ब्राह्मणो ऽभिहितः । ब्रह्मन् । किमिदमसदृशं व्यवसितम् । यज्ञो, पवीतमक्षमाला कमण्डलुस्त्रिपुण्ड्रकं स्कन्धे च श्वा विधुरम् । अथवा शशमृगसूकरव्यापादने नूनमयं कुशल इति । एवमुक्त्वा तावतिक्रान्ती । ब्राह्मणस्तु जिज्ञासया पशुं भूमौ निक्षिप्य सुनि• पुणं कर्णशृङ्गवृषणपुच्छादीनवयवान्परामृश्याचिन्तयत् । मूर्खास्ते। कथमिमं श्वानमिवावधारयन्ति । पुनः स्कन्धेनादाय प्रायात् । अथान्यैस्त्रिभिरभिहितो ब्राह्मणः । न त्वया स्पष्टव्या वयमिति । • एकपार्श्वन गम्यताम् । यत्कारणम् । शुचिरसि लिङ्गमात्रेण । ब्राह्मण । श्वसंपर्कानूनं व्याधी भविष्यसि । इत्युक्त्वापकान्ताः । अथासौ ब्राह्मणश्चिन्तयामास । किमिदमापतितम् । अथवा यती 19 बहुत्वम् । तत्प्रमाणम् । दृश्यन्ते च लोके विपरीतानि । कदाचिदयं श्वरूपी राक्षसः स्यात् । किम् । अस्य शक्यं स्वरूपं कर्तुमिति । एवं संप्रधार्य भूमौ निक्षिप्यानवलोकयन्नेव प्रायात्प्रायश्चित्तभ15 यात् । तैरपि भक्षितो ऽसौ पशुरिति । A 218 A219 अतो ऽहं ब्रवीमि । बहवो ऽबलवन्तश्चेति । तत् । देव । अस्ति किंचिद्वक्तव्यम् । तच्चावधार्य यथोक्तमनुष्ठेयम् । सो ऽब्रवीत् । तात । अथ किम् । चिरजीव्याह । 18 देव। मां विगतपक्षं कृत्वाहाचैरसृग्भिरभ्युच्यास्मान्यग्रोधपादपात्प्रक्षिप्यापयानं कृत्वर्ण मूकपर्वते सपरिवारस्तिष्ठ । यावदहं तान्सपत्नाञ्छास्त्रप्रणीतेन विधिना दक्षिणाशामुखान्कृत्वा कृतार्थः पुनस्त्वत्सकाशमागच्छामि । न च त्वया मदीयचिन्ता कार्या । 21 तथा चानुष्ठिते ऽस्तं गते सवितर्यसावपमर्दः स्वसैन्यपरिवारस्तमेव न्यग्रोधमवरूढः । न च तच कंचिदपि वायसं पश्यति । शिखरगतश्चाचिन्तयत् । क्व ते शत्रवो गता इति । अथ चिरजीवी क्षितितलगत एवं चिन्तयामास । यद्येते शत्रवो ऽनुप4 लब्धवृत्तान्ता एवापयान्ति । ततो मया किं कृतं भवति । उक्तं च । अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम् । आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ ७० ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy