________________
109
1
1
अथ श्येनो ऽपि राज्ञः पुरतः पपात । सो ऽपि राजन् ' मुञ्च मुञ्च क्षुधातुरस्य मे भक्ष्यं समर्पयस्वेति प्रोच्चैरुवाच । कपोत आह । देव · शरणागतस्य मे परित्राणमर्हसि । स्वशरीराण्यपि शरणागतार्थं त्यजन्तीति साधवो नित्यम् । न शरणागतम् । श्येनो ऽब्रवीत् । राजन् । सकलमनोरथदाता किल श्रूयसे । अतो मे भक्ष्यमेनं दातुमर्हसि । प्राणसंशयमापन्नो ऽस्मीति । असावपि राजा जातकारुण्यः कथमेतदिति संभ्रान्तो दोलारूढ इव सान्त्वयञ्छ्येनमाह । नैष सतां पन्थाः । शरणागतपरित्यागः । तदहं मांसमन्यदेव ते दापयामि । यावत्तृप्तिमवाप्नोषीति । श्येनः । न वयं परहतपिशितभुजः। स्वयं जीवतो मांसान्युष्णरुधिरकललान्यास्वादयामहे। किंतु यावन्मात्रमिदं कपोतमांसं तुलितं भवति ' तावन्मे स्वमांसं प्रयच्छस्वेति । बाढम् । दातास्मीति राज्ञि प्रतिपन्ने हाहाकारः समभूद्भूभुजाम् । देव ' मा साहसं कार्षीः । एष श्येनरूपी राक्षसस्त्वद्विनाशहेतुरागत इति । एवमार्तनादे वर्तमाने तुलां कपोतः समारोपितः । कक्षां तत्समां कृत्वा स्वमांसमङ्गावयवादुत्कृत्यारोपितम् । न च कपोतसमं भवत्येव । अवशेषावयवविलुप्तपिशितः शिविर्यदा कपोतस्य न तुल्यतां संजगाम । तदा नमः सर्वविदे धर्मायेति कृत्वा स्वयमेव तुलामधिरूढः । अथ दिवि देवदुन्दुभयः प्रणेदुः । अविरलकुसुमवृष्टिसारः समीरणः प्रववौ । साधु साध्विति दशस्वपि दिक्षु वाचो विचेरुः। अत्रान्तरे धर्मपाकशासनौ प्रकटितरूपौ तं राजानमाहतुः । साधु ' महीनाथ । शोभनस्ते ऽतिनिपुणः प्राणिधर्मो विज्ञातः। परमार्थतस्त्वमेव जिज्ञासितः । तदिदं शरीरं ते पुरातनमिवास्तु ' कोशमक्षयं धर्मे च * सदा मतिर्भूतभूतये भवतु । इत्युक्त्वान्तर्धानमागती ।
1
24
6
9
12
15
18
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale vii: King Sivi.
21