Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
105
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale v: Brahman, goat, and three rogues.
Frame-story.
स्कन्धे करिष्यामि । यावदन्यौ द्वौ धूर्ती संप्राप्तौ । ताभ्यामपि ब्राह्मणो ऽभिहितः । ब्रह्मन् । किमिदमसदृशं व्यवसितम् । यज्ञो, पवीतमक्षमाला कमण्डलुस्त्रिपुण्ड्रकं स्कन्धे च श्वा विधुरम् ।
अथवा शशमृगसूकरव्यापादने नूनमयं कुशल इति । एवमुक्त्वा तावतिक्रान्ती । ब्राह्मणस्तु जिज्ञासया पशुं भूमौ निक्षिप्य सुनि• पुणं कर्णशृङ्गवृषणपुच्छादीनवयवान्परामृश्याचिन्तयत् । मूर्खास्ते। कथमिमं श्वानमिवावधारयन्ति । पुनः स्कन्धेनादाय प्रायात् । अथान्यैस्त्रिभिरभिहितो ब्राह्मणः । न त्वया स्पष्टव्या वयमिति । • एकपार्श्वन गम्यताम् । यत्कारणम् । शुचिरसि लिङ्गमात्रेण । ब्राह्मण । श्वसंपर्कानूनं व्याधी भविष्यसि । इत्युक्त्वापकान्ताः ।
अथासौ ब्राह्मणश्चिन्तयामास । किमिदमापतितम् । अथवा यती 19 बहुत्वम् । तत्प्रमाणम् । दृश्यन्ते च लोके विपरीतानि । कदाचिदयं श्वरूपी राक्षसः स्यात् । किम् । अस्य शक्यं स्वरूपं कर्तुमिति । एवं संप्रधार्य भूमौ निक्षिप्यानवलोकयन्नेव प्रायात्प्रायश्चित्तभ15 यात् । तैरपि भक्षितो ऽसौ पशुरिति ।
A 218
A219
अतो ऽहं ब्रवीमि । बहवो ऽबलवन्तश्चेति । तत् । देव । अस्ति किंचिद्वक्तव्यम् । तच्चावधार्य यथोक्तमनुष्ठेयम् । सो ऽब्रवीत् । तात । अथ किम् । चिरजीव्याह । 18 देव। मां विगतपक्षं कृत्वाहाचैरसृग्भिरभ्युच्यास्मान्यग्रोधपादपात्प्रक्षिप्यापयानं कृत्वर्ण
मूकपर्वते सपरिवारस्तिष्ठ । यावदहं तान्सपत्नाञ्छास्त्रप्रणीतेन विधिना दक्षिणाशामुखान्कृत्वा कृतार्थः पुनस्त्वत्सकाशमागच्छामि । न च त्वया मदीयचिन्ता कार्या । 21 तथा चानुष्ठिते ऽस्तं गते सवितर्यसावपमर्दः स्वसैन्यपरिवारस्तमेव न्यग्रोधमवरूढः । न च तच कंचिदपि वायसं पश्यति । शिखरगतश्चाचिन्तयत् । क्व ते शत्रवो गता इति । अथ चिरजीवी क्षितितलगत एवं चिन्तयामास । यद्येते शत्रवो ऽनुप4 लब्धवृत्तान्ता एवापयान्ति । ततो मया किं कृतं भवति । उक्तं च ।
अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम् । आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ ७० ॥

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164