SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 63 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale i: Mouse and two monks. Tale ii: Hulled grain for hulled grain. विमानना दुश्चरितानुकीर्तनं कथाप्रसङ्गो वचनादविस्मयः । ३ न दृष्टिदानं कृतपूर्वनाशनं विरक्तभावस्य नरस्य लक्षणम् ॥ ४४ ॥ सो ऽब्रवीत् । भद्र । न मन्युः करणीयः । पश्य । अयं मे मूषको • महतो ऽपकारान्करोति । भिक्षाभाजनप्रध्वंसान्न चाहमेनं शक्रोमि निवारयितुम् । सो ऽब्रवीत् । किमेष एकको ऽत्र मूषकः । उतान्ये ऽपि मूषकाः । सो ऽब्रवीत् । किमन्यैर्मूषकैः । अयं मां दुष्टो योगी9 वाजलं छलयति । तच्छृत्वासावाह । जूटकर्ण । न मूषकमात्रस्येदशी शक्तिर्भवति । किं तर्हि कारणेनात्र भवितव्यम् । उक्तं च। नाकस्माच्छाण्डिली माता विक्रीणाति तिलैस्तिलान् । 1" लुञ्चिताल्लञ्चितैरेव कार्यमत्र भविष्यति ॥ ४५ ॥ जूटकर्ण आह । कथं चैतत् । सो ऽब्रवीत् । ॥ कथा २॥ 15 अस्ति । अहं कदाचिदभ्यर्णासु वर्षासु कस्मिंश्चिदधिष्ठाने स्थितिग्रहणनिमित्तं कंचिद्ब्राह्मणमावासं प्रार्थितवान् । वर्षास्वतीतासु पुनर्विहारार्थं प्रहरशेषायां शवयाँ प्रतिबुद्धो ऽचिन्तयम् । 13 कतमेन दिग्भागेनावगन्तव्यम् । अथ युगपदसावपि ब्राह्मणस्तस्यां वेलायां प्रतिबुद्धो जालकान्तरितां भार्यामपृच्छत् । ब्राह्मणि । श्रूयताम् । श्वः पर्वकालो भविता। तत्र त्वया यथाशक्ति ब्राह्मण1 भोजनं कर्तव्यमिति । असावाह बहुपरुषाक्षरया गिरा । कुतस्ते ब्राह्मणभोजनस्य शक्तिरत्यन्तदरिद्रस्येति। एवमुक्तोऽसौ कूपे प्रक्षिप्त व न वचः किंचिदवोचत् । पुनरपि चिरादब्रवीत् । ब्राह्मणि ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy