SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 64 6 Tale ii: Hulled grain for hulled grain. 3 Book II. THE WINNING OF FRIENDS; कर्तव्यः संचयो नित्यं न तु कार्यो ऽतिसंचयः । अतिसंचयशीलो ऽयं धनुषा जम्बुको हतः ॥ ४६ ॥ असावब्रवीत् । कथं चैतत् । ब्राह्मणो ऽब्रवीत् । ॥ कथा ३ ॥ अस्ति कस्मिंश्चिदधिष्ठाने मांसवृत्तिर्व्याधः । स प्रत्युषस्युत्थाय किंचिद्वनमनुप्रविश्य शीघ्रमेव मृगं विद्ध्वा कृतमांससंचयः प्रत्यागच्छन्महति तीर्थावतारे ऽवतरन्महिषशावतुल्यमुद्धृतविषाणं कर्दमपिण्डावलिप्तगात्रं सूकरमपश्यत् । तं दृष्ट्वाशुभनिमित्तप्रचोदितो · भयमागतः । प्रतिनिवृत्य च प्रतिबद्धगतिः सूकरेण मांसं संकोचितकं भूमौ प्रक्षिप्य धनुः सशरं च कृत्वेदमुवाच । न मे धनुर्नापि च बाणसंधनं किमेष शङ्कां समुपैति सूकरः । प्रसह्य पश्याम्यहमस्य निश्चयं Tale iii: Too greedy jackal. 12 21 यमेन नूनं प्रहितो ममान्तिकम् ॥ ४७ ॥ 15. इत्युक्त्वा तस्मै विषदिग्धमिषुं प्राहिणोज्जत्रुस्थाने विवा परपार्श्वगतं च कृतवान् । सूकरेणापि प्रहारमूर्छितेनोत्तमं जवमास्थायावस्करप्रदेशे तथाभ्याहतः ' येन गतासुस्त्रिधागतशरीरो निपतितः । 18 अथ तस्मिन्महति विषमे वृत्ते मृगलुब्धकसूकरप्रस्तरे क्षुत्क्षामकुक्षिर्दर्दरको नाम गोमायुराहारार्थी तमुद्देशमागतो ऽपश्यन्मृगसूकरलुब्धकान् । तांश्च दृष्ट्वा परं परितोषमुपागतः । आह च । नान्नपानानि सततमुत्पद्यन्ते हि देहिनाम् । लब्ध्वा प्रभूतमन्नाद्यं क्रमशस्तूपयोजयेत् ॥ ४८ ॥ ~~~
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy