SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 65 इति । एवमुक्त्वा धनुःप्रतिबन्धं भक्षयितुमारब्धः । कथमपि दैवाच्छिन्ने प्रतिबन्धे वक्षः प्रदेशे भिन्नः पञ्चत्वमुपगत इति । अतो ऽहं ब्रवीमि । कर्तव्यः संचयो नित्यमिति । तत् ' ब्राह्मणि । स्पाष्ठ्ट्याज्जीष्यते । तच्च श्रुत्वा ब्राह्मण्याह । अस्ति मे तिलस्तोकं तण्डुलस्तोकं च । स त्वं प्रत्युषस्युत्थाय समित्कुशाद्यानयनार्थं वनं गच्छ । अहमपि सहानेन शिष्येण कामन्दकिना ब्राह्मणत्रयस्य साधयिष्यामि कृसरमिति । तथा चानुष्ठिते तिलप्रस्थं कामन्दकिनाधिष्ठितं लुञ्चयेत्यास्थापितम् । तथा चातिव्यग्रत्वात्ते तिलाः कथमपि दैवाच्छुना विद्बालिताः । तया चाभ्यन्तरस्थया दृष्टाः । ततो ऽसावब्रवीत् । कामन्दके । न शोभनमापतितम् । विघ्नमुत्पन्नं ब्राह्मणतर्पणस्य । तथापि गच्छ । इमांस्तिलांल्लुञ्चितानपि कृष्णतिलैः परावर्तयित्वा शीघ्रमागच्छ । कृष्णकृसरमेव करिष्यामि । तथा चानुष्ठिते यस्मिन्वेश्मन्यहं भिक्षार्थमुपागतः । तस्मिन्नेव कामन्दकिरपि तिलविक्रयार्थमनुप्रविष्टो ऽकथयत् । गृह्यन्तामिमेति1. लाः। ब्राह्मण्याभिहितः । कथं तिला दीयन्त इति । कामन्दकिराह । शुक्लान्कृष्णैः प्रयच्छामि यदीष्टं गृह्यतामिति । तथेमे लुञ्चिता भद्रे लुञ्चानेव देहि मे ॥ ४९॥ 18 तथा च वृत्ते भर्तास्याः समागतः । तेनाभिहितम् । भद्रे । किमेतदिति । सा तमाह । समार्घास्तिला मया लब्धाः । शुक्लाः कृष्णैः । ततो ऽसौ विहस्याब्रवीत् । 6 9 12 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale ii: Hulled grain for hulled grain. Tale i: Mouse and two monks. 24 3 नाकस्माच्छाण्डिली माता विक्रीणाति तिलैस्तिलान् । लुञ्चितांल्लुञ्चितैरेव हेतुरत्र भविष्यति ॥ ५० ॥ इति । एवमाख्यायाब्रवीत्परिव्राट् । अस्ति किंचित्खनित्रमिति । जूट कर्ण आह । बाढम् । अस्ति । उपनीते च तस्मिन्कक्ष्यां बद्ध्वा संद I 21
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy